Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 141
________________ 0000000धर्मपरीला यशो० एतद्व्याख्या यथा - चतुः शरणगमनानन्तरं दुष्कृतगर्भोक्ता, तामाह- शरणमुपगतश्च सन् एतेषां=अर्हदादीनां, गहे दुष्कृतं । किंविशिष्टम् ? इत्याह-जण्णं अरहंतेसु वा इत्यादि । अर्हदादिविषयं, ओघेन वा जीवेषु मार्गस्थितेषु = सम्यग्दर्शनादियुक्तेषु, अमार्गस्थितेषु = एतद्विपरीतेषु, मार्गेसाधनेषु = पुस्तकादिषु, अमार्गसाधनेषु = खड्गादिषु, यत्किंचिद् वितथमाचरितं= अविधिपरिभोगादि, अनाचरितव्यं क्रियया, अनेष्टव्यं मनसा, पापं पापकारणत्वेन, पापानुबन्धि तथाविपाकभावेन, गर्हितमेतद् कुत्साऽऽस्पदं, दुष्कृतमेतद् धर्मबाह्यत्वेन, उज्झितव्यमेतद् हेयतया, विज्ञातं मया कल्याणमित्रगुरुभगवद्वचनाद्, एवमेतद् इति रोचितं श्रद्धया तथाविधक्षयोपशमजया, अर्हत्सिद्धसमक्षं गर्हे, कथं? इत्याह- दुष्कृतमेतद् उज्झितव्यमेतद् अत्र व्यतिकरे 'मिच्छामि दुक्कडं ' वारत्रयं पाठः । I चन्द्र : चतुःशरणगमनानन्तरं दुष्कृतगर्भोक्ता = "तस्स पुण विवागसाहणाणि चउसरणगमणं दुक्कडगरिहा" इत्यादिपाठे तथाभव्यत्वविपाकसाधनं प्रथमं चतुः शरणगमनं प्रतिपादितं, तदनन्तरं या दुष्कृतगर्हा प्रतिपादिता तामाह । शेषं प्रायः सुगमम् । वरं अविधिपरिभोगादि इत्यत्रादिना विधिनाऽपरिभोगादिकं ग्राह्यम् । पापं पापकारणत्वेन पापं नाम अशुभकर्म, अविधिपरिभोगादिकं तु नाशुभकर्म, किन्तु अशुभकर्मकारणं, ततश्च कथं तत् “पापं” उच्यते ? इत्याशङ्कायामिदं समाधानं यदुत पापकारणत्वेन तदपि पापमुच्यते । कारणे कार्योपचारात् यथा आयुःकारणं घृतं स्वयमेवायुः उच्यते । तथाविपाकभावेन = पापप्रकृतीनामुत्तरोत्तरवृद्धिरुपेण । कुत्साऽऽस्पदं = निन्दास्थानं । 'कथमेतद् दुष्कृतं' इत्यत्र कारणमाह धर्मबाह्यत्वेन इति । तथा च यत इदं धर्मबाह्यं तत इदं दुष्कृतम् । तथाविधक्षयोपशमजया = मिथ्यात्वमोहनीयक्षयोपशमजन्यया । गर्हापद्धतिमाह-“दुष्कृतमेतद्" इत्यादि । शुन्द्र : पंयसूत्रना पाठनी व्याख्या या प्रमाणे छे - "तस्स पुण विवागसाहणाणि चउसरणगमणं दुक्कडगरिहा" से गाथामां तथाभव्यत्वना विपाउना साधन तरी प्रथम ચતુઃશરણ ગમન કહેલું. ત્યારબાદ દુષ્કૃતગહ કહેલી, હવે તેને જ બતાવે છે. ******* આ અરિહંતાદિના શરણને પામેલો છતો હું દુષ્કૃતને ગહું છું, તે કેવું છે ? એ કહે છે કે અરિહંતોમાં...એટલે કે અરિહંતાદિવિષયક એ દુષ્કૃત છે. સામાન્યથી સર્વજીવોને વિશે કે જે જીવોમાં કેટલાક સમ્યગ્દર્શનાદિવાળા છે, કેટલાક એનાથી વિપરીત છે. મહામહોપાધ્યાય ચશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૨૬

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154