Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie भावभाषात्वमेवेति ग्रहणमेव द्रव्यभाषा स्यान्न निसर्गादीत्युक्तविवक्षवादरणीया। एवं वचोयोगप्रभवा भाषेत्यपि । निसर्गकाले भावभाषानभ्युपगमे विरुद्धथेत, वचोयोगो हि " निसर्गानुकूलः कायसंरम्भः, काययोगाहृतवागद्रव्यसमूहसध्रीचीनजीवव्यापारो" वेत्यन्यदेतत् , उभयथापि तज्जन्या भावभाषेत्युपेयम् , अन्यथा भाषापरिणत्यनुकूलवाग्योगवैकल्यात् , किंबहुना, एवं हि 'भाष्यमाणा भाषेति' भागवतमपि वचनं विरुद्धयेत । अत्र भावभाषात्वस्यैव विधेयत्वात् , अन्यथा न पूर्व नापि पश्चादित्यवधारणानुपपत्तेः । अथ भाष्यमाणा भाषेति कथम् ?, नहि भाव भाष्यते किन्तु विषय इति चेत् , सत्य, भाषापदसमभिव्याहारे वचनार्थकधातोर्यत्नविशेषपरत्वात् , अत एव वाचमुच्चरतीत्यादिलोंकेपि प्रयोगः । ननु तथापि कथमेतदभिन्नानामेव भाषाद्रव्याणामारम्भतः शब्दपरिणामत्यागात् भिन्नानां तु लोकाभिव्याप्त्यादिना परतोपि तत्परिणामावस्थानान्निसर्गसमय एव भापति प्रतिज्ञाविरोधात् । न च निसर्गोत्तरं वासनयैव भाषापरिणामाद्विशेषोऽभिधेयः, तया द्रव्यान्तराणां भाषापरिणामाधानेपि निसृष्टद्रव्याणां तदपरित्यागात् , न च सूक्ष्मणुसूत्रनयेनोपपत्तिः, तन्नयेऽपि परतस्तत्परिणतिधाराऽविच्छेदात् , नापि स्थूलकालमादाय वर्तमानत्वोपग्रहान्न दोष इति वाच्यं, वर्तमानयत्नोपरमेपि भाषापरिणामानुपरमादिति चेत् , न, अत्र क्रियारूपभावभाषाया एव ग्रहणाच्छब्दार्थोपपत्तेरिति हेत्वभिधानाद्भाषापरिणामस्य तदुत्तरकालमप्यप्रत्यूहात् शब्दार्थवियोगादिति हेतुना तदा क्रियारूपभावभाषाया एव निषेधादित्याकलयामः ॥ १२ ॥ अथ भावभाषामाहउवउत्ताणं भासा,णायव्वा एत्थ भावभासत्ति|उवओगोखलु भावो,णुवओगोदव्वमिति कट्ठ।१३। CHOREGAONKARRENCE द्रव्यभाषा| स्वरूपं समर्थ्य भावभाषायाः स्वरूपादिप्ररूपणम् ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126