Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir रहस्य मूलगाथा संस्कृतानुवादः॥ श्रीभाषा विशेषा दृष्टास्त्रैलोक्यदर्शिभिः ॥ ८॥ भवन्त्यनन्तगुणानि द्रव्याण्येभिर्भिद्यमानानि ।। पश्चानुपूर्वीभेदात्सर्वस्तोकानि चरमाणि ॥९॥ द्रव्यैर्निसृष्टस्तत्प्रायोग्याणां किल पराघातः॥ विश्रेण्यामेको मिश्रश्च समायां श्रेण्याम् ॥ १०॥ प्राधान्यं द्रव्यस्य प्रकरणम् ॥3 चाप्राधान्यं तथैव क्रियाणाम् ।। भावस्य चावलम्ब्य ग्रहणादिषु द्रव्यव्यपदेशः॥११ ।। अन्यथा विरुध्यते किल द्वाभ्यां च सम याभ्यां भाषते भाषां ॥ वचोयोगप्रभवा सा भाषा भाष्यमाणेति ॥ १२ ॥ उपयुक्तानां भाषा ज्ञातव्याऽत्र भावभाषेति ॥ ॥३८॥XI उपयोगः खलु भावोऽनुपयोगो द्रव्यमिति कृत्वा ॥ १३ ॥ अवधारणी चैषा श्रुताजज्ञातमेतदिति व्यवहारात् ।। सम्भावना च निर्णयहेत्वसाध्येति द्रष्टव्यम् ॥ १४ ॥ भावेपिभवति त्रिविधा द्रव्ये च श्रुते तथा चारित्रे च ॥ द्रव्ये चतुर्धा सत्याऽसत्या मिश्राऽनुभया च ॥१५॥ प्रथमे द्वे पर्याप्ते उपरितने च द्वे अपर्याप्ते ।। अवधारयितुं शक्यते पर्याप्ताऽन्या च विपरीता ।। १६ । भाषा चतुर्विधेति च व्यवहारनयाच्छूते प्रज्ञानम् ॥ सत्या मृषेति भाषा द्विविधैव हन्दि निश्चयतः ॥ १७ ॥ इत एवाऽऽज्ञापनी जात्या केबला च निर्दिष्टा ॥ प्रज्ञापनी प्रज्ञापनासूत्रे तत्त्वार्थदर्शिभिः ॥ १८ ॥ आराधनां प्रतीत्यापि परिभाषैव चतुर्विभागे । सत्यान्तर्भाव एव चतुर्णामाराधकत्वं यत् ॥१९॥ एवं चतुर्विधत्वं प्रकल्पितं भवेद्यदि मतिरेषा ।। सान यतो व्यवहारानुगतं वस्त्वपि श्रुतसिद्धम् ॥ २०॥ तस्मिस्तद्वचनं खलु सत्याऽवधारणैकभावेन ॥ आराधनी चैषा श्रुते परिभाषिता दशधा ॥ २१ ॥ जनपदसम्मतस्थापनायां नाम्नि रूपे प्रतीत्यसत्यं च। व्यवहारभावयोगे दशममौपम्यसत्यं च ।। २२।। या जनपदसङ्केतादर्थ लोकस्य प्रत्याययति ॥ एषा जनपदसत्या प्रज्ञप्ता धीरपुरुषः ॥ २३ ॥ नातिक्रम्य रुढिं या योगार्थेन निश्चयं करोति ॥ सम्मतसत्यैषा पङ्कजभाषा यथा पद्म ॥ २४ ॥ स्थापनायां वर्तमानाऽवगतभावार्थरहितसंकेतात् ॥ स्थापनासत्या भण्यते यथा जिनप्रतिमायां जिनशब्दः ॥ २५॥ भावार्थविहीनव नामाभिप्रायलब्धप्रसरा या ॥ सा भवति नामसत्या यथा धनरहितोपि धनवान् ॥ २६ ॥ एवमेव रूपसत्या नवरं नाम्नि रूपाभिलाषः ॥ स्थापना पुनर्न प्रवर्तते तजातीये सदोषे च ।। २७ ।। अविरोधेन ॥३८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126