Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 110
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir OVI CREASACSCRI 3 सालम्बनं, अरूपिविषयं च निरालम्बनमिति स्थितम् ॥ १६ ॥ अथ निरालम्बनध्यानस्यैव फलपरम्परामाह- पारम्पर्येण एयम्मि मोहसागर-तरणं सेढी य केवलं चेव ॥ तत्तो अजोगजोगो, कमेण परमं च निव्वाणं ॥२०॥ | निर्वाण 'एयम्मि'त्ति । एतस्मिन् निरालम्बनध्याने लब्धे,मोहसागरस्य-दुरन्तरागादिभावसन्तानसमुद्रस्य तरणं प्राप्तिपर्यभवति। ततश्च 'श्रेणिः'क्षपकश्रेणिनिhढा भवति, सा ह्यध्यात्मादियोगप्रकर्षगर्भिताशयविशेषरूपा । एष एव सम्प्र-लन्तं निरा। ज्ञातः समाधिस्तीर्थान्तरीयैर्गीयते, एतदपि सम्यग्-यथावत् प्रकर्षण-सवितर्कनिश्चयात्मकत्वेनात्मपर्यायाणाम लम्बनर्थानां च द्वीपादीनामिह ज्ञायमानत्वादर्थतो नानुपपन्नम्।ततश्च'केवलमेव केवलज्ञानमेव भवति। अयं चासम्प्रज्ञातः | ध्यानफलं | समाधिरिति परैर्गीयते,तत्रापि अर्थतो नानुपपत्तिः, केवलज्ञानेऽशेषवृत्त्यादिनिरोधाल्लब्धात्मस्वभावस्य मानसविज्ञान ॥ गाथा वैकल्यादसम्प्रज्ञातत्वसिद्धेः । अयं चासम्प्रज्ञातः समाधिर्द्विधा-सयोगिकेवलिभावी अयोगिकेवलिभावी च, आद्यो २०॥ मनोवृत्तीनां विकल्पज्ञानरूपाणामत्यन्तोच्छेदात्सम्पद्यते । अन्त्यश्च परिस्पन्दरूपाणाम् , अयं च केवलज्ञानस्य फलभूतः। एतदेवाह, ततश्च केवलज्ञानलाभादनन्तरं च, अयोगयोगः वृत्तिबीजदाहायोगाख्यः समाधिर्भवति, अयं च धर्ममेघः इति पातञ्जलैर्गीयते, अमृतात्मा इत्यन्यैः, भवशत्रुः इत्यपरैः, शिवोदयः इत्यन्यैः, सत्त्वानन्दः इत्येकैः,परश्च इत्यपरैः। क्रमेण उपदर्शितपारम्पर्येण,ततोऽयोगयोगात् ,परमं सर्वोत्कृष्टफलं, निर्वाणं भवति॥२०॥ ॥ इति महोपाध्याय श्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकपण्डित श्रीपद्मविजयगणिसहोदरोपाध्यायश्रीजस विजयगणिसमर्थितायां विशिकाप्रकरणव्याख्यायां योगविंशिका विवरणं सम्पूर्णम् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126