Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
निशाभक्ते स्वरूपतो
क्षितत्वविचारः॥
॥ ५९॥
SANSARSARALACES
न, निषेधविधेर्लक्षणया पापजनकत्वमेवार्थ इति पापजनकत्वेन हेतुना उक्तसाध्यसाधनेऽस्य दोषलेशस्याप्यभावा-
ब दिति युक्तमुत्पश्यामः॥अथ पापजनकत्वमेव हिंसायुक्तत्वेनेति स एव हेतुरत्र शोभन इति चेत् , न, हिंसावदेवेत्य- त्रैवकारस्य स्पष्टत्वार्थकत्वेन हिंसाया इव विभावरीभक्तस्य स्वातंत्र्येणैव पापजनकत्वस्य सिद्धान्तप्रसिद्धत्वात् । नहि हिंसा हिसान्तरमन्तर्भाव्य पापं जनयति तद्वदेव विभावरीभक्तं हिंसामन्तर्भाव्येति, न किञ्चिदेतत् ।। यत्तु श्राद्ध दिनकृत्यसूत्रवृत्त्योरुक्तं "तजोणियाण जीवाणं, तहा संपाइमाण य॥ निसिभत्ते वधो दिट्ठो, सबदंसीहि सवहा ॥ २२७ ॥" तस्मिन्संसक्तान्नसक्त्वादौ भक्ते निगोदोरणिकादीनां योनिरुत्पत्तिर्येषां ते तद्योनिका जीवास्तेषां तथा सम्पातिमानामागन्तुककुन्थुपिपीलिकादीनां चशब्दात् आत्मनश्च कीटिकादेर्मेधादिघातात , निशिभक्ते वधो विनाशो, दृष्टः सर्वदर्शिभिः सर्वथेति ॥ यदुक्तं निशीथभाष्ये, “जइवि हु फासुअदवं कुंथुपणगाइत्यादि ।" अत्र सर्वथेति प्रौढिवाद एव, कालातिक्रमादिप्रयुक्तसंसक्तान्नसम्भवानामागन्तुकसम्पातिमसच्चानां च व्यापादनेन दोषसम्भव इत्यत्र तु निर्भर इति सूक्ष्मधिया निभालनीयम् ॥ यत्तु, तस्मिन्नित्यनन्तरं 'अकारप्रश्लेषेणासंसक्तानपानेपि रात्रियोगाजीवोत्पत्तिः इति केनचिदभिधीयते तदभिनिवेशविजृम्भितं,अकारप्रश्लेषरहितस्यैव पाठस्य ताडपत्रादिपुस्तके दर्शनात्तत्सहितपाठस्य प्रदर्शयिष्यमाणभाष्यचूाद्यागमविरुद्धत्वात् ॥ एतेन योगशास्त्रग्रन्थवृत्तिलेशोपि (प्रकाश ३. श्लोक ५२-५३.) व्याख्यातः ।। अयं हि सः, "अपि च निशाभोजने क्रियमाणे अवश्यं पाकः सम्भवी तत्र च षड्जीवनिकायवधोऽवश्यम्भावी भाजनधावनादौ च जलगतजन्तुविनाशः, जलो
॥ ५९॥
For Private and Personal Use Only

Page Navigation
1 ... 121 122 123 124 125 126