Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 124
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SASSASSISTER ज्झनेन च भूमिगतकुन्थुपिपीलिकादिजन्तुघातश्च भवति॥ तत्प्राणिरक्षणकांक्षयापि न निशाभोजनं कर्तव्यं, यदाहुः॥ "जीवाण कुंथुमाईण घायणं-भाणधोयणाइसु ॥ एमाइ रयणिभोयण-दोसे को साहिउं तरह॥१॥” इति ॥५२॥ ननु यत्रानस्य न पाको नवा भाजनधावनादिसम्भवस्तत्सिद्धं मोदकादि खर्जूरद्राक्षादि च भक्षयतः क इव दोष इति चेत् ?, (इत्याह)। नाप्रेक्ष्यमूक्ष्मजन्तूनि, निश्यद्यात्प्रासुकान्यपि ।। अप्युद्यत्केवलज्ञान- दृतं यन्निशाशनम् ।।५३॥ प्रासुकान्यपि अचेतनान्यपि, उपलक्षणत्वात्तदानीमपक्कान्यपि मोदकफलादीन्यपि, न निश्यद्यात्। कुतः?, अप्रेक्ष्यसूक्ष्मजन्तूनि अप्रेक्ष्याः प्रेक्षितुमशक्याःसूक्ष्माः कुन्थुपनकादयो जन्तवो यत्र तानि,विशेषणद्वारेण हेतुवचनं,अप्रेक्ष्यसूक्ष्मजन्तुत्वादित्यर्थः। यद्यस्माद् , उत्पन्नकेवलज्ञानैः केवलज्ञानबलेनाधिगतसूक्ष्मेतरजन्तुसंघा(पा)तैः, निर्जन्तुकस्याहारस्याभावात् , नाऽऽदृतं निशाभोजनं ॥ यदुक्तं निशीथभाष्ये ॥जइवि०॥५३॥" अत्र हि पाकारम्भ सम्भवी भाजनधावनादिसम्भवी प्रासुकेष्वपि तदुद्भवाऽऽगन्तुकजीवानां दुर्दर्शत्वसम्भवी जीवोपमर्ददोष उक्तः।। निर्जन्तुकस्याहारस्याभावादिति तु प्रौढिवादमा नतु रात्रिभक्ष्यसंसर्गजीवान्तरोपमर्दप्रतिपादनपरं 'संसग्गजीवसंघात'मित्यग्रेपि सम्बध्यमानजीवसमूहमित्येव व्याख्यानात् । अन्यथा नित्यसंसक्तौ उत्पद्यमानजीवसमूहमित्येतद्व)व्याकरिष्यत् , अत एव निशीथचूर्णी चतुर्विधेपि रात्रिभोजने विचित्रसम्भवस्तत्र विचित्रप्रायश्चित्तप्रकारचोपदर्शितः प्रत्यक्षज्ञानिभिः प्रासुकद्रव्ये प्राणिविरहितत्वदर्शनेपि तदन्यैश्च रत्नाद्युद्योतेन तथादर्शनेपि षष्ठो मूलगुणो विराध्यते इत्येव हेतोरनाचीर्णत्वमुक्तं,तथाचैकादशोद्देशकसूत्रचूर्णिः। “जइविय० गाहा।।[जइवि हु फासुगदव्वं, कुंथुपणगा CAMERA S For Private and Personal Use Only

Loading...

Page Navigation
1 ... 122 123 124 125 126