Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 115
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीकूपदृष्टान्तविशदीकरणप्रकरणम् ॥ तत्त्वविवेकविवरणसमेतम् ॥ NAGACAAAAAESO समग्रविधिभक्तिभाजो यथाख्यातचारित्रपर्यवसानं पारम्पर्येण अल्पायुष्कतया पूजाया अविधानेपि पूजाप्रणिधानस्य सनिदर्शनं फलवत्वं च प्रतिपादित। तथा हि। "उत्तमगुणबहुमाणो,पयमुत्तमसत्तमज्झयारंमि।। उत्तमधम्मपसिद्धी,पूयाए जिणवरिंदाणं ॥४८॥" उत्तमगुणेषु प्रधानगुणेषु जिनेषु वीतरागत्वादिषु वा जिनगुणेषु, बहुमानः पक्षपात उत्तमगुणबहुमानः। स जिनपूजया भवतीति सम्बन्धः। पूजकस्येति गम्यं । तथा पदमवस्थान, उत्तमसत्त्वमध्यकारे प्रधानप्राणिनां प्रधानाशयविशेषाणां वा जिनगणधरनाकिनरनायकादीनां मध्ये । तथोत्तमधर्मप्रसिद्धिः प्रधानधर्मस्य पूजाकाले प्रकृष्टपुण्यकर्मवन्धरूपस्याशुभकर्मक्षयरूपस्य कालान्तरक्रमेण यथाख्यातचारित्ररूपस्य निष्पत्तिर्भवति । अथवोत्तमधर्मप्रसिद्धिर्जिनशासनप्रकाशः। पूजयाऽभ्यर्चनेन, जिनाश्छद्मस्थवीतरागास्तेषां वराः प्रधानाः केवलिनस्तेषामिन्द्रास्तीर्थकरनामकर्मोदयवर्तित्वान्नानाविधातिशयसमेतत्वाच्च तीर्थकरा अतस्तेषां जिनवरेन्द्राणाम् ॥ इति गाथार्थः॥ पूजा तावन्महाफलैव, अथ पूजाप्रणिधानमपि महाफलमिति दृष्टान्तेन दर्शयन्नाह ॥ "सुब्ब(च)इ दुग्गइनारी, जगगुरुणो सिंदुवारकुसुमेहिं ।। पूजापणिहाणेणं, उववन्ना तियसलोंगमि ॥४९॥" श्रूयत आकर्ण्यते जिनेन्द्रप्रवचने, किंतदित्याह-दुर्गतिनारी दारिद्योपहतयोषा । जगद्गुरोस्त्रिभुवननाथस्य, सिन्दुवारकुसुमैर्निर्गुण्डीपुष्पैः करणभूतैः । या, पूजार्चनं तत्र यत्प्रणिधानं 'पूजां करोमीत्येव विधमैकाग्र्यं' तत्पूजाप्रणिधानम् । इह च कुसुमशब्दसापेक्षत्वेपि पूजाशब्दस्य प्रणिधानशब्देन सह समासो 'देवदत्तस्य गुरुकुलम्' इत्यादाविव न दोषायेति । तेन पूजाप्रणिधानेन करणभूतेन ॥ पूजां विनैव भावमात्रेणैवेति हृदयम् ।। उपपन्नो ACANCAROKARESCRECACARE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126