Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 119
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीकूपदृष्टान्तविशदीकरणप्रकरणम् ॥ ॥५७॥ तत्त्वविवेक विवरणसमेतम् ॥ AAAAAAAAKRE वस्तवाहेतुत्वेन न द्रव्यस्तवत्वमिति प्रतिपादनादिति विवेचकाः॥ ननु किमित्येवमविधियुतभक्तिकर्मणा व्यवहारतो निश्चयतो वा बन्धपदार्थकालापेक्षया मिश्रत्वमुच्यते, यावता द्रव्यहिंसयैव जलपुष्पादिजीवोपमर्दरूपया मिश्रत्वमुच्यतां उत्तरकालिकचैत्यवन्दनादिभावस्तवेन तदोषापनयनात्कूपदृष्टान्तोपपत्तेरित्याशङ्कायामाहजइ विहिजुयपूयाए, दुहृत्तं दव्वमित्तहिंसाए ॥ तो आहारविहार-प्पमुहं साहूण किमदुई ॥६॥ व्याख्या-यदि विधियुतपूजायां विधियुतभक्तिकर्मणि, द्रव्यमात्रहिंसया, दुष्टत्वं स्यात्, तोत्ति तर्हि, साधूनामाहारविहारप्रमुखं किमदुष्टमुच्यते ?, तदपि दुष्टमेव वक्तुमुचितं तत्रापि द्रव्यहिंसादोषस्यावर्जनीयत्वात् । यतनया तत्र न दोष इति चेत् , अत्रापि किं न तथा, जिनपूजादौ द्रव्यहिंसाया असदारम्भप्रवृत्तिनिवृत्तिफलत्वेनाहिंसारूपत्वात् ।। तदुक्तं ॥ “असदारंभपवत्ता, जं च गिही तेण तेसि विण्णेया॥ तणिवित्तिफलच्चिय, एसा परिभावणीयमिणं ॥४३॥" व्याख्या-असदारम्भप्रवृत्ताः प्राण्युपमर्दनहेतुत्वेनाशोभनकृष्यादिव्यापारप्रसक्ताः, यद्यमाद्धेतोः, चशब्दः समुच्चये । गृहिणो गृहस्थाः; तेन हेतुना, तेषां गृहिणां, विज्ञेया ज्ञातव्या, तन्निवृत्तिफलैव देहगेहादिनिमित्तजीवोपमर्दनरूपाशुभनिवृत्तिप्रयोजनैव, भवति हि जिनपूजाजनितभावविशुद्धिप्रकर्षेण चारित्रमोहनीयक्षयोपशमसद्भावात्कालेनासदारम्भेभ्यो निवृत्तिः । तथा जिनपूजाप्रवृत्तिकाले वाऽसदारम्भाणामसम्भवात् शुभभावसम्भवाच्च तन्निवृत्तिफलाऽसौ भवतीत्युच्यते ॥ एषा जिनपूजा, परिभावनीयं पर्यालोचनीयं, इदं जिनपूजाया असदारम्भनिवर्तनफलत्वं भवद्भिरपि, येनावबुध्य तथैव ॥५७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126