Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ACROSSAKALSCRICE
प्रतिपद्यते ॥ इति गाथार्थः।" इति पञ्चाशकवृत्तौ॥ यतनातो नच हिंसा,यस्मादेषैव तन्निवृत्तिफला तदधिकनिवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति, अत एवाऽऽपेक्षिकाल्पायुष्कताधिकारे " नन्वेवं प्राणातिपातमृषावादावप्रासुकदानं च कर्तव्यापन्नमिति चेत् , आपद्यतां नाम भूमिकाविशेषापेक्षया को दोषः, अत एव यतिधर्माऽशक्तानां द्रव्यस्तवद्वारेण प्राणातिपातादौ प्रवृत्तिः प्रवचने प्रोक्तेति भगवतीवृत्तावुक्तं, अत्र यतिधर्माशक्तत्वं असदारम्भप्रवृत्तत्वं अधिकारिविशेषणं द्रष्टव्यं," आज्ञायोगादाहारविहारादिकं साधूनां न दुष्टमिति चेत्, अत्रापि परिमितसंसारफलकत्वार्थवादेनानुकम्पादाविवाज्ञायोगः किं न कल्प्यते ॥ उक्तं हि संसारप्रतनुताकारणत्वं द्रव्यस्तवस्य तत्र दानादिचतुष्कतुल्यफलकत्वोपवर्णनमप्यत्रोपष्टम्भकमेव, कूपज्ञातान्यथानुपपत्या पूजादिकाले द्रव्यहिंसाजनितं पापमवर्जनीयमेव, अत्र लिखनीयमग्रे लिखितं विलोक्यम् ॥ अथ द्रव्यस्तवे यावानारम्भस्तावत्पापमित्यत्र स्थूलानुपपत्तिमाहजावइओ आरंभो, तावइयं दूसणंति गणणाए ॥ अप्पत्तं कह जुजइ, अप्पंपि विसं च मारेइ ॥७॥ ___व्याख्या-द्रव्यस्तवे यावानारम्भस्तावहूषणमिति गणनायां क्रियमाणायां ऋजुनत्रनयेन प्रतिजीवं भिन्नभिन्नहिंसाश्रयणादसङ्घयजीववि[राधनासच्चादल्पत्वमारम्भस्य कथं युज्यते?,न कथञ्चिदित्यर्थः, अस्तु वाकथञ्चिदल्पत्वं तथाप्यल्पो दोषः किंन नाशयति? अपितु नाशयत्येव,अत्र ज्ञातमाह,अल्पमपिविषंच मारयति]॥ ॥ इति न्यायविशारदप्रणीतं त्रुटितावस्थमेव तत्त्वविवेकाख्यविवरणविभूषितं कूपदृष्टान्तविशदीकरणप्रकरणं सम्पूर्णम् ॥ १. कूपदृष्टान्तोऽयं प्राचीनप_विभाव्यते ॥ कश्चित्पुमानरण्यानी, वरेण्यसरणिच्युतः। अटाव्यमान उत्तप्तो, मध्याहेऽतितृषातुरः ॥१॥
CACANAGACASSASARAMA
For Private and Personal Use Only

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126