Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्याशङ्कायां नाभियुक्तवचनविरोधो (विरोधोऽविरोधो ) न्मुखानामवभासते तस्य भिन्नतात्पर्यकत्वादित्याशयवानाहइसिं दुट्ठत्ते जं, एयस्स नवगवित्तिकारणं ॥ संजोयणं कथं तं, विहिविरहे भत्तिमहिगिच्च ॥ ३॥
व्याख्या - इषदुष्टत्वे अल्पपापबहुनिर्जराकारणत्वे, यत्, एतस्य कूपदृष्टान्तस्य, नवाङ्गीवृत्तिकारण श्री अभयदेवसूरिणा पञ्चाशकाष्टकवृत्यादौ, तद्विधिविरहे यतनादिवैकल्ये, भक्तिमात्रमधिकृत्य, विधिभक्त्यादिसाकल्ये तु स्वल्पमपि पापं वक्तुमशक्यमेवेतिभावः ||३|| कथमयमाशयः सूरेर्ज्ञात इति चेत् , तत्राहइहरा कहंचि वयणं, कायवहे कहं णु होज पूयाए । न य तारिसी तवस्सी, जंपड़ पुब्वावरविरुद्धं ||४||
व्याख्या - इतरथा सूरेरुक्ताशयाभावे, पूजायां कायवधे कथञ्चिद्वचनं कथं नु भवेत् न कथञ्चिदित्यर्थः, न च तादृशस्तपस्वी पूर्वापरविरुद्धं वचनं, जल्पति । तस्मादीषद्दोषदुष्टं जिनपूजादिकं विधिविरहभक्तिकालीनव ग्राह्यमित्याशय एव युक्तः । अयं भावः - पूजापञ्चाशके जिनार्चने काय वधेन प्रतिकुष्टेन दुष्टत्वात्कथं परिशुद्धत्वमित्याशङ्कायां “भण्णइ जिणपूजाए, कायवहो जइवि होइ उ कहिं चि ॥ तहवि तई परिसुद्धा, गिहीणं कूवाहरणजोगा || ४२ ||" इति श्रीहरिभद्रसूरिभिस्समाहितं, तत्र च 'यतनाविशेषेण प्रवर्तमानस्य सर्वथापि न भवतीति दर्शनार्थं कथञ्चिग्रहणमित्यभयदेवसूरिभिर्व्याख्यातं तेन विधिविरह एव कायवधः पर्यवस्यति ।। " प्रमादयोगेन प्राणव्यपरोपणं हिंसेति" तत्त्वार्थोक्तहिंसाल [क्षणमपि जाघटीति । इत एव श्रीहरिभद्रसूरिभिर्जिन वरेन्द्र पूजाफलं १.[ ] एतच्चिह्नान्तरितः पाठः पठनाभिरतानामर्थसङ्गतये संयोजितः स्याच्चेत्कस्यापि पार्श्वपूर्णाविमौ ग्रन्थौ तदानिवेद्यं ॥
१०
For Private and Personal Use Only

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126