Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राजमानत्वाभिधानादपायापगमातिशयः १ ॥ त्रिदशेन्द्रनमस्कृतमित्यनेन पूजातिशयः २॥ महाभागमित्यनेन ज्ञानातिशयः प्रतिपादितः ३ ॥ वचनातिशयश्च सामर्थ्यगम्य इति ४ । प्रतिज्ञातमेवाह| सपरोवयारजणगं, जणाण जह कूवखणणमाइ8।। अकसिणपवत्तगाणं,तह दव्वत्थओविविण्णेयो।२ व्याख्या-यथा जनानां कूपखननं निर्मलजलोत्पादनद्वारा,स्वपरोपकारजनकमादिष्टं एवं अकृत्स्नप्रवर्तकानां कृत्स्नसंयमे प्रवृत्तिमतां गृहिणां, द्रव्यस्तवोऽपि स्नानपूजादिकः करणानुमोदनद्वारेण स्वपरयोः । पुण्यकारणं, विज्ञेयः॥ दृष्टान्ते उपकारो द्रव्यात्मा, दार्शन्तिके च भावात्मेतिभावः॥२॥ नन्वियं योजनाऽभयदेवसूरिणैव(चतुर्थ)पञ्चाशकवृत्तौ दृषिताऽन्यथायोजना च कृता, तथा हि ।। "न्हाणाइवि जयणाए, आरंभवओ गुणाय णियमेण ।। सुहभावहेउओ खलु, विण्णेयं कूवणाएणं ॥१०॥" स्नानाद्यपि देहशौचप्रभृतिकमपि, आस्तां पूजा दि (तद्वर्जनं पूजा वा) आदिशब्दाद्विलेपनादिग्रहः, गुणायेति योगः, यतनया रक्षयितुं शक्यजीवरक्षणरूपया। तत्कि साधोरपीत्याशंक्याह, आरम्भवतः स्वजनधनगेहादिनिमित्तं कृष्यादिकर्मभिः पृथिव्यादिजीवोपमर्दनयुक्तस्य गृहिण इत्यर्थः। न पुनः साधोः, तस्य सर्वसावद्ययोगविरतत्वाद्भावस्तवारूढत्वाच्च, भावस्तवारूढस्य हि स्नानादिपूर्वकद्रव्यस्तवोऽनादेय एव, भावस्तवार्थमेव तस्याश्रयणीयत्वात्तस्य च स्वत एव सिद्धत्वात् । एनं चार्थ प्रकरणान्तरे स्वयमेव वक्ष्यतीति ॥ गुणाय पुण्यबन्धलक्षणोपकाराय, नियमेनावश्यम्भावेन, अथ कथं स्वरूपेण सदोषमप्यारम्भिणो गुणायेत्याह, सुभभावहेउओत्ति लुप्तभावप्रत्ययत्वेन निर्देशस्य शुभभावहेतुत्वात्प्रशस्तभावनिबन्धन For Private and Personal Use Only

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126