Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीयोगविंशिका प्रकरणम् ॥
॥ ५२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रेणिकालसम्भविविशिष्टतर योगप्रयत्नाभावादावर्जीकरणोत्तरयोगनिरोधप्रयत्नाभावाच्चार्वाक्तन केवलिव्यापारस्य ध्यानरूपत्वाभावादुक्तान्यतरयोगपरिणतेरेव ध्यानलक्षणत्वात् । आह च महाभाष्यकारः - " सुदढप्पयत्तवावारणं णिरोहो व विज्जमाणाण || झाणं करणाण मयं, ण उ चित्तणिरोहमित्तागं ॥ ३०७१ ॥ " ( सुदृढप्रयत्नव्यापारणं निरोधो वा विद्यमानानाम् । ध्यानं करणानां मतं न तु चित्तनिरोधमात्रम् ) इति । स्यादेतद्, यदि क्षपकश्रेणिद्वितीया पूर्वकरणभावी सामर्थ्ययोग एवानालम्बनयोगो ग्रन्थकृताऽभिहितस्तदा तदप्राप्तिमतामप्रमत्तगुणस्थानानामुपरतसकलविकल्पकल्लोलमालानां चिन्मात्रप्रतिबन्धोपलब्धरत्नत्रय साम्राज्यानां जिनकल्पिकादीनामपि निरालम्बनध्यानमसङ्गताभिधानं स्यादिति, मैत्रम्, यद्यपि तत्त्वतः परतच्चलक्ष्यवेधाभिमुखस्तदविसंवादी सामर्थ्ययोग एव निरालम्बनस्तथापि परतच्च लक्ष्य वेधप्रगुणता परिणतिमात्रादर्वाक्तनं परमात्मगुणध्यानमपि मुख्यनिरालम्बनप्रापकत्वादेक ध्येयाकारपरिणतिशक्तियोगाच्च निरालम्बनमेव । अत एवावस्थात्रयभावने रुपातीतसिद्धगुणप्रणिधानवेलायामप्रमत्तानां शुक्लध्यानांशो निरालम्बनोऽनुभवसिद्ध एव । संसार्यात्मनोऽपि च व्यवहारनयसिद्धमौपाधिकं रूपमाच्छाद्यशुद्धनिश्चयनय परिकल्पित सहजात्मगुणविभावने निरालम्बनध्यानं दुरपह्नवमेव, परमात्मतुल्यतयाऽऽत्मज्ञानस्यैव निरालम्बनध्यानांशत्वात् तस्यैव च मोहनाशकत्वात् । आह च- "जो जाणइ अरिहंते, दव्वत्तगुणत्तपज्जयत्तेहिं । सो जाणइ अप्पाणं, मोहो खलु जाइ तस्स लयं ॥ १ ॥ " ( यो जानात्यर्हतो द्रव्यत्वगुणत्वपर्यायत्वैः । स जानात्यात्मानं मोहः खलु याति तस्य लयम् ) इति । तस्माद्रूपिद्रव्यविषयं ध्यानं
For Private and Personal Use Only
सविवर
णम् ॥
इषुपातह
ष्टान्तेना
नालम्बन
योग
निरूपणं
तत्र परा
शंकापरिहारश्च ।। गाथा १९ ॥
★ ॥ ५२ ॥

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126