Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीयोगविंशिका प्रकरणम् ॥ स्थानाद्यभावेऽनुष्ठानस्य द्रव्यत्वं चैत्यवन्दनप्रदानायोग्यत्वं प्ररूपितम्।। ॥४६॥ म्परया स्वफलसाधकत्वादिति भावः ॥११।। स्थानादियत्नाभावे च तचैत्यवन्दनानुष्ठानमप्राधान्यरूपद्रव्यतामास्क न्दनिष्फलं विपरीतफलं वा स्यादिति लेशतोऽपि स्थानादियोगाभाववन्तो नैतत्प्रदानयोग्या इत्युपदिशन्नाहइहरा उ कायवासिय-पायं अहवा महामुसावाओ॥ता अणुरूवाणं चिय,कायवो एयविन्नासो ॥१२ इहरा उत्ति । इतरथा तु अर्थालम्बनयोगाभाववतां स्थानादियत्नाभावे तु तत् चैत्यवन्दनानुष्ठान, कायवासितप्राय समूछेनजप्रवृत्तितुल्यकायचेष्टितप्राय मानसोपयोगशून्यत्वात् , उपलक्षणाद्वाग्वासितप्रायमपि द्रष्टव्यं, तथा चाननुष्ठानरूपत्वान्निष्फलमेतदिति भावः । अथवा इति दोषान्तरे, तचैत्यवन्दनानुष्ठानं महामृषावादा, "स्थानमौनध्यानैरात्मानं व्युत्सृजामि" इति प्रतिज्ञया विहितस्य चैत्यवन्दनकायोत्सर्गादेः स्थानादिभङ्गे मृषावादस्य स्फुटत्वात् , स्वयं विधिविपर्ययप्रवृत्तौ परेषामेतदनुष्ठाने मिथ्यात्वबुद्धिजननद्वारा तस्य लौकिकमृषावा दादतिगुरुत्वाच्च, तथा च विपरीतफलं तेषामेतदनुष्ठानं सम्पन्नम् । येऽपि स्थानादिशुद्धमप्यैहिककीादीच्छयाऽऽमु. ष्मिकस्वर्लोकादिविभूतीच्छया वैतदनुष्ठानं कुर्वन्ति तेषामपि मोक्षार्थकप्रतिज्ञया विहितमेतत्तद्विपरीतार्थतया क्रियमाणं विषगरानुष्ठानान्तर्भूतत्वेन महामृषावादानुबन्धित्वाद्विपरीतफलमेवेति । विषाद्यनुष्ठानस्वरूपं चेत्थमुपदर्शितं पतञ्जल्यायुक्तभेदान् स्वतन्त्रेण संवादयता ग्रन्थकृतैव योगबिन्दौ-" विषं गरोऽननुष्ठानं, तद्धेतुरमृतं परम् ॥ गुर्वादिपूजानुष्ठान-मपेक्षादिविधानतः ॥ १५५ ॥" विषं स्थावरजङ्गमभेदभिन्नम् , ततो विषमिव विषम् , एवं गर इव गरः, परं गरः कुद्रव्यसंयोगजो विषविशेषः, अननुष्ठानं अनुष्ठानाभासं, तथा तद्धेतुः ROCHACOCKING गाथा १२ ॥ ॥४६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126