Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 106
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir FAS प्रीत्यादिसदनुष्ठान भेदलक्ष णादिनिरूपणं, ACCOCACCRASACRECACANCH ज्ञातं स्यात्पीतिभक्तिगतम्॥५॥"तुल्यमपि कृत्यं भोजनाच्छादनादि,ज्ञातंउदाहरणम् ॥'शास्त्रार्थप्रतिसन्धानपूर्वा साधोः सर्वत्रोचितप्रवृत्तिर्वचनानुष्ठानम्॥३॥'आह च"वचनात्मिका प्रवृत्तिः, सर्वत्रौचित्ययोगतो या | तु॥वचनानुष्ठानमिदं, चारित्रवतो नियोगेन।।६।।" 'व्यवहारकाले वचनप्रतिसन्धाननिरपेक्षं दृढतरसंस्कारा चन्दनगन्धन्यायेनात्मसाद्भूतं जिनकल्पिकादीनां क्रियासेवनमसङ्गानुष्ठानम्।।४।।'आह च"यत्त्वभ्यासातिशयात्सात्मीभूतमिव चेष्ट्यते सद्भिः।तदसङ्गानुष्ठानं,भवति त्वेतत्तदावेधात्॥७॥"तदावेधाद्वचनसंस्कारात्, यथाऽऽद्यं चक्रभ्रमणं दण्डव्यापारादुत्तरं च तजनितकेवलसंस्कारादेव,तथा भिक्षाटनादिविषयं वचनानुष्ठानं वचनव्यापाराद् , असङ्गानुष्ठानं च केवलतजनितसंस्कारादिति विशेषः, आह च "चक्रभ्रमणं दण्डा-त्तदभावे चैव यत्परं भवति॥वचनासङ्गानुष्ठा-नयोस्तु तज्ज्ञापकं ज्ञेयम्।।८॥” इति। खलु इति निश्चये। एतेष्वनुष्ठानभेदेषु एषः एतदः समीपतरवृत्तिवाचकत्वात्समीपाभिहिताऽसङ्गानुष्ठानात्मा चरमो योगोऽनालम्बनयोगो भवति, सङ्गत्यागस्यैवानालम्बनलक्षणत्वादिति भावः ॥ १८ ॥ आलम्बनविधयैवानालम्बनस्वरूपमुपदर्शयन्नाहआलंबणं पि एयं, रूवमरूवी य इत्थ परमुत्ति॥तग्गुणपरिणइरूवो, सुहुमोऽणालंबणो नाम ॥१९॥ 'आलंबणं पि'त्ति । आलम्बनमपि एतत् प्राकरणिकबुद्धिसन्निहितं, अत्र योगविचारे, 'रूपि' समवसरणस्थजिनरूपतत्प्रतिमादिलक्षणम् , च पुनः, 'अरूपी परमः' सिद्धात्मा, इत्येवं द्विविधम् । तत्र तस्यअरूपिपरमात्मलक्षणस्यालम्बनस्य ये गुणा:-केवलज्ञानादयस्तेषां परिणतिः-समापत्तिलक्षणा तया रूप्यत इति GACASSACROSCAME असङ्गानुठाने चाना| लम्बनयोगनिवेशः॥ गाथा १८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126