Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
SOCIA
विष-गर
अननुष्ठान-तद्धेतु-अमृतानुष्ठानलक्ष| णस्वरूपा
4
अनुष्ठानहेतुः, अमृतमिवामृतं अमरणहेतुत्वात् , अपेक्षा-इहपरलोकस्पृहा, आदिशब्दादनाभोगादेश्च यद् विधानंविशेषस्तस्मात् ।। “विषं लब्ध्याद्यपेक्षातः, इदं सचित्तमारणात् ॥ महतोऽल्पार्थनाज्ज्ञेयं, लघुत्वापाद. नात्तथा ॥१५६॥" लब्ध्यादेः-लब्धिकीादेः, अपेक्षातः-स्पृहातः, इदं अनुष्ठानं, विषं सचित्तमारणात् परिशुद्धान्तःकरणपरिणामविनाशनात् , तथा महतोऽनुष्ठानस्य, अल्पार्थनात् तुच्छलब्ध्यादिप्रार्थनेन, लघुत्वस्यापादनादिदं विषं ज्ञेयम् ॥"दिव्यभोगाभिलाषेण, गरमाहुर्मनीषिणः। एतद्विहितनीत्यैव, कालान्तरनिपातनात् ॥ १५७॥” एतद् अनुष्ठान ऐहिकभोगनिस्पृहस्य स्वर्गभोगस्पृहया गरमाहुः, विहितनीत्यैव विषोक्तनीत्यैव, केवलं कालान्तरे-भवान्तररूपे, निपातनात्-अनर्थसम्पादनात् । विषं सद्य एव विनाशहेतुः, गरश्च कालान्तरेणेत्येवमुपन्यासः॥ “अनाभोगवतश्चैत-दननुष्ठानमुच्यते ॥ सम्प्रमुग्धं मनोऽस्येति, ततश्चैतद्यथोदितम् ॥ १५८॥” अनाभोगवतः कुत्रापि फलादावप्रणिहितमनसः, एतद् अनुष्ठानं, अननुष्ठानं अनुष्ठानमेव न भवतीत्यर्थः। सम् इति समन्ततः प्रकर्षेण मुग्धं सन्निपातोपहतस्येवानध्यवसायापन्नं, मनोऽस्य, इतिः पादसमाप्तौ। यत एवं ततो यथोदितं तथैव ॥ "एतद्रागादिदं हेतुः, श्रेष्ठो योगविदो विदुः॥ सदनुष्ठानभावस्य, शुभभावांशयोगतः ॥ १५९॥” एतद्रागात् सदनुष्ठानबहुमानात् , इदं आदिधार्मिककालभावि देवपूजाद्यनुष्ठान, सदनुष्ठानभावस्य तात्विकदेवपूजाद्याचारपरिणामस्य मुक्त्यद्वेषेण मनाम् मुक्त्यनुसारेण वा शुभभावलेशयोगात्, श्रेष्ठः अवन्ध्यो, हेतुरिति योगविदो विदुः जानते ॥"जिनोदि
CACOCCALCCCA
दिप्ररूपणं॥
गाथा १२॥
95%A
*
For Private and Personal Use Only

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126