SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SOCIA विष-गर अननुष्ठान-तद्धेतु-अमृतानुष्ठानलक्ष| णस्वरूपा 4 अनुष्ठानहेतुः, अमृतमिवामृतं अमरणहेतुत्वात् , अपेक्षा-इहपरलोकस्पृहा, आदिशब्दादनाभोगादेश्च यद् विधानंविशेषस्तस्मात् ।। “विषं लब्ध्याद्यपेक्षातः, इदं सचित्तमारणात् ॥ महतोऽल्पार्थनाज्ज्ञेयं, लघुत्वापाद. नात्तथा ॥१५६॥" लब्ध्यादेः-लब्धिकीादेः, अपेक्षातः-स्पृहातः, इदं अनुष्ठानं, विषं सचित्तमारणात् परिशुद्धान्तःकरणपरिणामविनाशनात् , तथा महतोऽनुष्ठानस्य, अल्पार्थनात् तुच्छलब्ध्यादिप्रार्थनेन, लघुत्वस्यापादनादिदं विषं ज्ञेयम् ॥"दिव्यभोगाभिलाषेण, गरमाहुर्मनीषिणः। एतद्विहितनीत्यैव, कालान्तरनिपातनात् ॥ १५७॥” एतद् अनुष्ठान ऐहिकभोगनिस्पृहस्य स्वर्गभोगस्पृहया गरमाहुः, विहितनीत्यैव विषोक्तनीत्यैव, केवलं कालान्तरे-भवान्तररूपे, निपातनात्-अनर्थसम्पादनात् । विषं सद्य एव विनाशहेतुः, गरश्च कालान्तरेणेत्येवमुपन्यासः॥ “अनाभोगवतश्चैत-दननुष्ठानमुच्यते ॥ सम्प्रमुग्धं मनोऽस्येति, ततश्चैतद्यथोदितम् ॥ १५८॥” अनाभोगवतः कुत्रापि फलादावप्रणिहितमनसः, एतद् अनुष्ठानं, अननुष्ठानं अनुष्ठानमेव न भवतीत्यर्थः। सम् इति समन्ततः प्रकर्षेण मुग्धं सन्निपातोपहतस्येवानध्यवसायापन्नं, मनोऽस्य, इतिः पादसमाप्तौ। यत एवं ततो यथोदितं तथैव ॥ "एतद्रागादिदं हेतुः, श्रेष्ठो योगविदो विदुः॥ सदनुष्ठानभावस्य, शुभभावांशयोगतः ॥ १५९॥” एतद्रागात् सदनुष्ठानबहुमानात् , इदं आदिधार्मिककालभावि देवपूजाद्यनुष्ठान, सदनुष्ठानभावस्य तात्विकदेवपूजाद्याचारपरिणामस्य मुक्त्यद्वेषेण मनाम् मुक्त्यनुसारेण वा शुभभावलेशयोगात्, श्रेष्ठः अवन्ध्यो, हेतुरिति योगविदो विदुः जानते ॥"जिनोदि CACOCCALCCCA दिप्ररूपणं॥ गाथा १२॥ 95%A * For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy