Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 99
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir KI श्रीयोगविंशिकाप्रकरणम् ॥ ॥४७॥ तमिति त्वाहु-र्भावसारमदः पुनः ।। संवेगगर्भमत्यन्त-ममृतं मुनिपुङ्गवाः॥१६०॥" जिनोदितमित्येव, भावसारं श्रद्धाप्रधान, अदः अनुष्ठानं, संवेगगर्भ मोक्षाभिलाषसहितं अत्यन्तं अतीव अमरणहेतुत्वादमृतसंज्ञमाहुर्मुनिपुङ्गवाः गौतमादिमहामुनयः ॥ एतेषु त्रयं योगाभासत्वादहितम् , द्वयं तु सद्योगत्वाद्धितमिति तत्त्वम् । यत एवं स्थानादियत्नाभाववतोऽनुष्ठाने महादोषः, तत् तस्मात, अनुरूपाणामेव योग्यानामेव, एतद्विन्यासः चैत्यवन्दनसूत्रप्रदानरूपः कर्तव्यः ॥ १२ ॥ क एतद्विन्यासानुरूपा इत्याकासायामाहजे देसविरइजुत्ता, जम्हा इह वोसिरामि कायं ति ।। सुच्चइ विरईए इम, ता सम्मं चिंतियव्वमिणं॥१३॥ जे इत्यादि । ये देशविरतियुक्ताः पञ्चमगुणस्थानपरिणतिमन्तः ते इह अनुरूपा इति शेषः। कुतः ? इत्याह-यस्मात् इह चैत्यवन्दनसूत्रे, 'व्युत्सृजामि कायम्' इति श्रूयते, इदं च विरतौ सत्यां सम्भवति, तदभावे कायव्युत्सर्गासम्भवात् , तस्य गुप्तिरूपविरतिभेदत्वात् , ततः सम्यक् चिन्तितव्यमेतत् यदुत कायं व्युत्सृजामि इतिप्रतिज्ञान्यथानुपपल्या देशविरतिपरिणामयुक्ता एव चैत्यवन्दनानुष्ठानेऽधिकारिणः, तेषामेवागमपरतन्त्रतया विधियत्नसम्भवेनामृतानुष्ठानसिद्धेरिति । एतच्च मध्यमाधिकारिग्रहणं तुलादण्डन्यायेनाद्यन्तग्रहणार्थम् , तेन परमामृतानुष्ठानपराः सर्वविरतास्तचत एव तद्धेवनुष्ठानपराः । अपुनर्बन्धका अपि च व्यवहारादिहाधिकारिणो गृह्यन्ते, कुग्रहविरहसम्पादनेनापुनर्बन्धकानामपि चैत्यवन्दनानुष्ठानस्य फलसम्पादकतायाः पश्चाशकादिप्रसिद्धत्वादित्यवधेयम् । ये त्वपुनर्बन्धकादिभावमप्यस्पृशन्तो विधिबहुमानादिरहिता गतानुगतिकतयैव चैत्यबन्दनाद्य ॥ सविवरणम् ॥ चैत्यवन्दनाधिकारिनिरूपणम् ॥ गाथा १२-१३॥ ||४७॥ on For Private and Personal Use Only

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126