Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीयोगविशिकाप्रकरणम् ।
॥४९॥
शोधका॥५॥ एकोऽपि शास्त्रनीत्या यो, वर्तते स महाजनः॥किमज्ञसाथैः? शतम-प्यन्धानां नैव पश्यति॥४॥ यत्संविग्नजनाचीर्ण,श्रुतवाक्यैरबाधितम् ॥तज्जीतं व्यवहाराख्यं, पारम्पर्यविशुद्धिमत् ॥५॥ यदाचीर्णमसंविग्नैः, श्रुतार्थानवलम्बिभिः।। न जीतं व्यवहारस्त-दन्धसन्ततिसम्भवम् ।।६।। आकल्पव्यवहारार्थ, श्रुतं न व्यवहारकम्।।इति वक्तुमहत्तन्त्रे, प्रायश्चित्तं प्रदर्शितम्।।७॥ तस्माच्छ्रतानुसारेण, विध्येकरसिकैर्जनैः।। संविग्रजीतमालम्ब्य-मित्याज्ञा पारमेश्वरी॥८॥" ननु यद्येवं सर्वादरेण विधिपक्षपातः क्रियते तदा "अविहिकया वरमकयं,असूयवयणं भणंति सचन्नू। पायच्छित्तं जम्हा, अकए गुरुयं कए लहु॥१॥"[अविधिकृताद्वरमकृतं ? असूयावचनं भणन्ति सर्वज्ञाः । प्रायश्चित्तं यस्मादकृते गुरुकं कृते लघुकं] इत्यादि वचनानां का गतिः ? इति चेत् , नैतानि वचनानि मूलत एवाविधिप्रवृत्तिविधायकानि, किन्तु विधिप्रवृत्तावप्यनाभोगादिनाऽविधिदोषश्छद्मस्थस्य भवतीति तद्भिया न क्रियात्यागो विधेयः, प्रथमाभ्यासे तथाविधज्ञानाभावादन्यदापि वा प्रज्ञापनीयस्याविधिदोषो निरनुबन्ध इति तस्य तादृशानुष्ठानमपि न दोषाय, विधिबहुमानाद् गुर्वाज्ञायोगाच्च तस्य फलतो विधिरूपत्वादित्येतावन्मात्रप्रतिपादनपराणीति न कश्चिद्दोषः।। अवोचाम चाध्यात्मसारप्रकरणे(२ अधि०)"अशुद्धापि हि शुद्धायाः,क्रिया हेतुः सदाशयात्।।तानं रसानुवेधेन, स्वर्णत्वमुपगच्छति॥१६॥"यस्तु विध्यबहुमानादविधिक्रियामासेवते तत्कर्तुरपेक्षया विधिव्यवस्थापनरसिकस्तदकर्ताऽपि भव्य एव,तदुक्तं योगदृष्टिसमुच्चये ग्रन्थकृतैव तात्त्विका पक्षपातश्च,भावशून्या च या क्रिया।।
सविवरणम् ।। सयुक्तिकं शास्त्रानुसारिविधिप्रवृत्युपदेशसमर्थनम् ॥ गाथा
॥४९॥
For Private and Personal Use Only

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126