Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषा रहस्य प्रकरणम् ॥ मूलगाथा संस्कृतानुवादः॥ ॥३९॥ ति या भाषाम् ॥ यथा तबाहं दासोऽथवा सर्वमपि तद्वचनम् ॥ ४६॥ सा द्वेषनिःसृता खलु द्वेषाविष्टः कथयति यां भाषाम । यथा न जिनः कृतकृत्योऽथवा सर्वमपि तद्वचनम् ॥ ४७ ॥ सा हास्यनिसृता खलु हास्यपरिणतः कथयति यां भाषाम् ।। यथा प्रेक्षकहास्यार्थाय रऐपि न एमिति वचनम् ॥ ४८ ॥ सा च भयनिःसृता खलु या भाषते भयवशेन । विपरीताम् ॥ यथा नृपगृहीतश्चौरो नाहं चौर इति भणति नरः ॥ ४९ ॥ या कूटकथाकेलिराण्यायिकानिःसृता भवे-2 देषा ॥ यथा भारतरामायणशास्त्रेऽसम्बद्धवचनानि ॥ ५० ॥ यदुपघातपरिणतो भाषते वचनमलीकमिह जीवः ॥ उपधातनिःसृता सा यथाऽचौरेपि चौर इति ॥ ५६ ॥ एवं दशधाऽसत्या भाषोपदर्शिता यथासूत्रम् ॥ एषाऽपि भवति सत्या प्रशस्तपरिणामयोगेन ॥ ५२ ॥ रागेण वा द्वेषेण वा मोहन वा भाषते मृषां भाषाम् ॥ तथापि दशधा विभागोडनादिनिर्देशसंसिद्धः ॥ ५३ ॥ सद्भावस्य निषेधोऽसद्भूतोद्भावनं चार्थे । अर्थान्तरं च गर्दा इति चतुर्धा वा मृषाभाषा ॥ ५४॥ एबमसत्याभाषा निरूपिता प्रवचनस्य नीत्या ॥ सत्यामृषां भाषामतः परं कीर्तयिष्यामि ॥ ५५ ।। अंशे यस्या अर्थो विपरीतो भवति तथा तथारूपः ॥ सत्यामृषा मिश्रा श्रुते परिभाषिता दशधा ॥ ५६ ॥ उत्पन्नविगतमिश्रक जीवे. ऽजीवे च जीवाजीवे ।। तथाऽनन्तमिश्रिता खलु प्रत्येकाद्धायां चाऽद्धाद्धायाम् ॥ ५७ ॥ उत्पन्नमिश्रिता सा उत्पन्ना यत्र मिश्रिता भवन्ति ॥ संख्यायाः पूरणार्थ सार्धमनुत्पन्नभावैः ॥ ५८॥ सा विगतमिश्रिता खलु विगता भण्यन्ते मिश्रिता यत्र ।। संख्यायाः पूरणार्थ सार्धमविगतैरन्यैः ।। ५९ ॥ उत्पन्नविगतमिश्रितामेतां प्रभणन्ति यत्र खलु युगपत् ।। उत्पन्ना विगता अपि च ऊनाभ्यधिका भण्यन्ते ॥ ६०॥ सा जीवमिश्रिता खलु या भण्यते उभयराशिविषयापि ।। वर्जयित्वा | विषयमन्यमेषो बहुजीवराशिरिति ॥ ६१॥ साऽजीवमिश्रितापि च या भण्यते उभयराशिविषयापि ॥ वर्जयित्वा विषयमन्यमेषो बह्वजीवराशिरिति ॥ ६२ ॥ सोभयमिश्रितापि च जीवाजीवयोर्यत्र राशी ॥ क्रियते स्फुटः प्रयोगः ऊनाभ्यधिकायाः संख्यायाः ॥ ६३ ।। साऽनन्तमिश्रितापि च परित्तपत्रादियुक्तकन्दे ॥ एषोऽनन्तकाय इति यत्र सर्वत्रापि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126