Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 88
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोगा विशिष्टधर्मस्थानाराधन प्रतिबन्धकत्वाद्विघ्नास्तदपाकरणं च 'हियाहारा मियाहारा' । इत्यादिसूत्रोक्तरीत्या तत्कारणानासेवनेन, 'न मत्स्वरूपस्यैते परीषहा लेशतोऽपि बाधकाः किन्तु देहमात्रस्यैव ' इति भावनाविशेषेण वा सम्यग्धर्माराधनाय समर्थमिति ज्वरविघ्नजयसमो मध्यमो द्वितीयो विघ्नजयः २ ॥ यथा च तस्यैवाध्वनि जिगमिषोर्दिग्मोहविघ्नोपस्थितौ ' भूयो भूयः प्रेर्यमाणस्याप्यध्वनीनैर्न गमनोत्साहः स्यात्तद्विजये तु स्वयमेव सम्यग्ज्ञानात्परैश्चाभिधीयमानमार्गश्रद्धानान्मन्दोत्साहतात्यागेन विशिष्टगमनसम्भवस्तथेहापि मोक्षमार्गे दिग्मोकल्पो मिथ्यात्वा दिजनितो मनोविभ्रमो विघ्नस्तज्जयस्तु गुरुपारतन्त्र्येण मिथ्यात्वादिप्रतिपक्षभावनया मनोविश्र मापनयनादनवच्छिन्नप्रयाणसम्पादक इत्ययं मोहविघ्नजयसम उत्तमस्तृतीयो विजयः ३ ॥ एते च त्रयोऽपि विजया आशयरूपाः समुदिताः प्रवृत्तिहेतवोऽन्यतरवैकल्येऽपि तदसिद्धेरित्यवधेयम् ॥ उक्तं च-- विघ्नजयस्त्रिविधः खलु विज्ञेयो हीनमध्यमोत्कृष्टः ॥ मार्ग इह कण्टकज्वर-मोहजयसमः प्रवृत्तिफलः ॥ ९ ॥ इति ॥ “ अतिचाररहिताधिकगुणे गुर्वादौ विनयवैयावृत्त्य बहुमानाद्यन्विता हीनगुणे निर्गुणे वा दयादानव्यसनपतितदुःखापहारादिगुणप्रधाना मध्यमगुणे चोपकारफलवत्यधिकृतधर्मस्थानस्याहिंसादेः प्राप्तिः सिद्धिः ॥ " उक्तं च-सिद्धिस्तत्तद्धर्म-स्थानावाप्तिरिह तात्त्विकी ज्ञेया । अधिके विनयादियुता, हीने च दयादिगुणसारा ॥ १० ॥ इति ॥ " स्वप्राप्तधर्मस्थानस्य यथोपायं परस्मिन्नपि संपादकत्वं विनियोगः ॥ " अयं चानेकजन्मान्तरसन्तानक्रमेण प्रकृष्टधर्मस्थानावाप्तेरवन्ध्यो हेतुः । उक्तं च- सिद्धेश्चोत्तरकार्य, विनियो For Private and Personal Use Only प्रणिधाना दीनामा शयानां स्वरूपम् ॥ ॥ गा० १॥

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126