Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kendra U www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ औं अर्हम् नमः ॥ पूर्वधरसमान कालवर्ति - श्रीहरिभद्रसूरि सन्दर्भितं महामहोपाध्याय श्री यशोविजयजीगणिप्रणीतविवरण विभूषितं ॥ अथ श्रीयोगविंशिका प्रकरणम् ॥ मुक्खेण जोयणाओ, जोगो सव्वो वि धम्मवावारो ॥ परिस्रुद्धो विन्नेओ, ठाणाइगओ विसेसणं ॥१॥ ऐं नमः ॥ अथ योगविंशिका व्याख्यायते - मुक्खेण त्ति । मोक्षेण महानन्देन, योजनात् सर्वोऽपि धर्मव्यापारः साधोरालयविहारभाषाविनयभिक्षाटनादिक्रियारूपः, योगो विज्ञेयः, योजनाद्योग इति व्युत्पत्यर्थानुगृहीतमोक्षकारणीभूतात्मव्यापारत्वरूपयोगलक्षणस्य सर्वत्र घटमानत्वात् । कीदृशो धर्मव्यापारो योगः १ इत्याह- परिशुद्धः प्रणिधानाद्याशयविशुद्धिमान्, अनीदृशस्य द्रव्यक्रियारूपत्वेन तुच्छत्वात् ॥ उक्तं च ( षोडशक ३) आशयभेदा एते, सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः ॥ भावोऽयमनेन विना, चेष्टा द्रव्यक्रिया तुच्छा ।। १२ ।। (वृत्तिः) एते प्रणिधानादयः सर्वेऽपि कथञ्चित्क्रियारूपत्वेऽपि तदुपलक्ष्याः, आशयभेदाः, अयं च पञ्चप्रकारोऽप्याशयो भावः, अनेन विना चेष्टा कायवाङ्मनोव्यापाररूपा, द्रव्यक्रिया तुच्छा असारा अभिलषितफलासाधकत्वादित्येतदर्थः ॥ अथ के ते प्रणिधानाद्याशयाः १ उच्यते - प्रणिधानं प्रवृत्तिर्विशजयः सिद्धिर्विनियोगश्चेति पञ्च, आह च ( षोडशक ३ ) ॥ प्रणिधि- प्रवृत्ति - विघ्नजय-सिद्धि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126