Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 92
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir A स 4%95 त्रिण एव योगः, अपुनर्बन्धकसम्यग्दृशोस्तु तद्योगबीजम्” इति निश्चयनयाभिमतः पन्थाः॥ व्यवहारनयस्तु योगबीजमप्युपचारेण योगमेवेच्छतीति व्यवहारनयेनापुनर्बन्धकादयः स्थानादियोगस्वामिनः ॥ निश्चयनयेन तु चारित्रिण एवेति विवेकः । तदिदमुक्तम्-"अपुनर्बन्धकस्यायं, व्यवहारेण तात्त्विकः ॥ अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु ॥ ३६९॥” इति । अपुनर्बन्धकस्य उपलक्षणात्सम्यग्दृष्टेश्च, व्यवहारेण कारणे कार्यत्वोपचारेण, तात्त्विकः, कारणस्यापि कथञ्चित्कार्यत्वात् । निश्चयेन उपचारपरिहारेण, उत्तरस्य तु चारित्रिण एव ।। सकृद्वन्धकादीनां तु स्थानादिकमशुद्धपरिणामत्वानिश्चयतो व्यवहारतश्च न योगः किन्तु योगाभ्यास इत्यवधेयम् , उक्तं च-“ सकृदावर्तनादीना-मतात्त्विक उदाहृतः ।। प्रत्यपायफलप्राय-स्तथा वेषादिमात्रतः ॥ ३७० ॥" सकृद्-एकवारमावर्तन्ते-उत्कृष्टां स्थिति बन्नन्ति ये ते सकृदावर्तनाः, आदिशब्दाद्विरावर्तनादिग्रहः, 'अतात्त्विकः' व्यवहारतो निश्चयतश्चातत्त्वरूपः ॥३॥ तदेवं स्थानादियोगस्वामित्वं विवेचितम् , अर्थतेष्वेव प्रतिभेदानाहइक्विको य चउद्धा, इत्थं पुण तत्तओ मुणेयव्वो। इच्छापवित्तिथिरसि-द्धिभेयओ समयनीईए ॥४॥ इक्किक्को य त्ति । अत्र स्थानादौ, पुनः कर्मज्ञानविभेदाभिधानापेक्षया भूयः, एकैकश्चतुर्दा तत्त्वतः है| सामान्येन दृष्टावपि परमार्थतः, समयनीत्या योगशास्त्रप्रतिपादितपरिपाट्या, इच्छाप्रवृत्तिस्थिरसिद्धिभेदतः का इच्छाप्रवृत्तिस्थिरसिद्धिभेदानाश्रित्य, मुणेयव्वो त्ति ज्ञातव्यः ॥ ४ ॥ तानेव भेदान् विवरीषुराह निश्चयव्यवहारनयभेदेन योगाधिकारिप्ररूपणं ॥ इच्छादियोगभेदो पक्रमश्च ॥ मागाथा ४॥ %A5 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126