Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
454045445CR
प्रयोगः ॥ ६४ ॥ परमपुरुषैर्भणिता एषा च परित्त (प्रत्येक) मिश्रिता भाषा ॥ याऽनन्तयुतपरित्ते भण्यते एषः परीत इति
मूलगाथा ॥ ६५ ॥ सत्यामृषा भाषा साद्धामिश्रिता भवेद्यत्र ॥ भण्यते प्रयोजनवशाहिवसनिशयोर्विपर्यासः ॥ ६६ ॥ रजन्या
संस्कृतानुदिवसस्य च देशो देशेन मिश्रितो यत्र ॥ भण्यते सत्यामृषाऽद्धाद्धामिश्रितैषा ॥ ६७ ॥ एवं सत्यामृषाभेदा उपदर्शिताः समयसिद्धाः ॥ भाषामसत्यामृषामतः परं कीर्तयिष्यामि ॥६८|| अनधिकृता या तिसृष्यपि न चाराधनविराधनोपयुक्ता ॥
वादः॥ भाषाऽसत्यामृषा एषा भणिता द्वादशधा ॥ ६९ ॥ आमन्त्रणी आज्ञापनी याचनी तथा पृच्छनी च प्रशापनी ॥ प्रत्याख्यानी भाषा भाषा इच्छानुलोमा च ॥ ७० ॥ अनभिगृहीता भाषा भाषा चाभिग्रहे बोद्धव्या ॥ संशयकरणी भाषा व्याकृताऽव्याकृता चैव ॥ ७१ ॥ सम्बोधनयुक्ता याऽवधानं भवति यां च श्रुत्वा ।। आमंत्रणी चैषा प्रज्ञप्ता तत्त्वदर्शिभिः | ॥ ७२ ॥ आशावचनेन युता आज्ञापनी पूर्वभणितभाषातः। करणाकरणानियमादुष्टविवक्षया सा भिन्ना ॥ ७३॥ सा याचनी च शेया यदीप्सितप्रार्थनापरं वचनम् ।। भक्तिप्रयुक्तैषा विनापि विषयं गुणोपेता ।।७४|| जिशासितार्थकथनं प्ररूपिता पृच्छनी जिनवरैः ॥ प्रज्ञापनी प्रशप्ता विनीतविनये विधिवादः ॥ ७५ ।। प्रार्थितनिषेधवचनं प्रत्याख्यानी जिनैः प्रज्ञप्ता । निजेप्सितत्वकथनं शेया इच्छानुलोमा च ॥ ७६ ।। सा भवत्यनभिगृहीता यत्रानेकेषु पृष्टकार्येषु । एकतरानवधारणमथवा डिस्था ( यदृच्छा )दिकं वचनम् ।। ७७ ॥ अभिगृहीता प्रतिपक्षः संशयकरणी च सा मुणि(शा)तव्या ॥ यत्रानेकार्थपदं श्रुत्वा भवति सन्देहः ॥ ७८ ॥ भाषाऽसत्यामृषा प्रकटार्था व्याकृता मुणि(शा) तव्या ॥ अतिगम्भीरमहा अव्याकृताऽथवाऽब्यक्ता ॥ ७९ ॥ एवमसत्यामृषा द्वादशविधा प्ररूपिता सम्यक् ॥ द्रव्ये भावभाषा तेन समाप्ता समासेन ।। ८० ॥ सर्वा अपि हि सुरनारकनराणां विकलेन्द्रियाणां चरमा च ॥ पञ्चेन्द्रियतिरश्चामपि सा शिक्षा लब्धिरहितानाम् ॥ ८१ । त्रिविधा थुते भाषा सत्या मृषाऽसत्यामृषा च ।। सम्यगुपयुक्तस्य तु सत्या सम्यक्त्वयुक्तस्य |॥ ८२ ॥ भवत्यसत्याभाषा तस्यैव चानुपयुक्तभावेन || मिथ्यात्वाविष्टस्य वाऽवितथपरिणामरहितस्य ॥ ८३ ॥ उपरितने का
For Private and Personal Use Only

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126