Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir बिना नविशेषस्यतस्तद्विशव्यभिचा तिचे बहनामा श्रीभाषारहस्यं सवृत्तिकम् ॥ लक्षणफल एव, फलेच्छायाः फलसिद्धिं विनाऽपूर्णत्वाद् , उपायेच्छापूर्तेस्त्वन्यतरसम्पत्त्यापि निर्वाहात् । न च फल- ग्रन्थकर्तुविशेषसम्पत्तये उपायविशेषे प्रवृत्तिनियमः फलविशेषस्यैवासिद्धः। राजरकैमरणयोरविशेषदर्शनेनायुःकर्मण इव कर्मा- गीतार्थान्तरस्यापि क्षये विशेषाभावात् । न च प्रतियोगिविशेषकृतस्तद्विशेषः । प्रतियोगिविशेषस्यापि तथाविधस्यासिद्धेः, प्रतिप्रार्थनं स्वरूपात्मकस्य च तस्य हेतुहेतुमद्भावभेदानियामकत्वात् । कथं तर्हि व्यभिचारादहूनामुपायानामेकफलहेतुत्वमिति गुरुपरम्परा चेत?, किं न दृष्टं तृणारणिमणीनामे कवह्निहेतुत्वं,तृणादिजन्यवहौ जातिविशेषोऽस्त्येवेति चेत् ,न, अनुपलम्भात् । जाति- प्रशस्तिश्च।। त्रयकल्पनात् एकशक्तिकल्पनाया एव लघुत्वाच्च । यथा तृणादीनामेकशक्त्या वह्निहेतुत्वं तथा बहूनामप्युपायानामेकयैव शक्त्या कर्मक्षयहेतुत्वं नानुपन्नमिति सर्वमवदातम् ॥१००॥अथ ग्रन्थं सम्पूर्य तच्छोधनाय गीतार्थान् प्रार्थयति । एवं (यं) भासरहस्सं,रइयं भविआण तत्तबोहत्थं । सोहिंतु पसायपरा,तं गीयत्था विसेसविऊ॥१०१॥ ___ स्पष्टा ॥ १०१॥ (॥ अथ ग्रन्थकारगुरुपरम्पराप्रशस्तिः ।।) सोम इव गोविलासैः, कुवलयबोधप्रसिद्धमहिमकलः। श्रीहीरविजयसूरि-स्तपगच्छव्योमतिलकमभूत् ॥१॥ श्रीविजयसेनसूरि-स्तत्पट्टोदयरविरिवाभूत् । यस्य पुरो द्योतन्ते, शलभा इव भान्ति कुमतिगणाः ॥२॥ तत्पडनन्दनवने, कल्पतरुर्विजयदेवसूरिवरः। विबुधैरुपास्यमानो, जयति जगजन्तुवाञ्छितदः ॥३॥ तत्पदृरोहणगिरी, सुररत्नं विजयसिंहसूरिगुरुः। भूपालभालतिलकी-भूतक्रमनखरुचिर्जयति ॥४॥ राज्ये प्राज्ये विजयिनि, तस्य जनानन्दकन्दजलदस्य । ग्रन्थोऽयं निष्पन्नः, सन्नयभाजां प्रमोदाय ॥५॥5॥३७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126