Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir RANSARAKASHASHA सा होइ अणभिगहिया,जत्थ अणेगेसु पुट्ठकजेसु। एगयराणवहारण-महवा डिस्थाइयं वयणं ८॥७॥ यत्र यस्याम् , अनेकेषु पृष्टकार्येषु मध्ये, एकतरस्यानवधारणमनिश्चयो भवति, 'एतावत्सु कार्येषु मध्ये किं करोमि ?' इति प्रश्ने 'यत्प्रतिभासते तत्कुरु' इति प्रतिवचने कस्यापि शृङ्गग्राहिकयाऽनिर्धारणात् । साऽनभिगृहीता भवति। नन्वेकतरानवधारणं प्रतिषेधवचनेप्यस्तीत्यतिव्याप्तिरिति चेत्, न, प्रकृतप्रवृत्त्यप्रतिबन्धकस्यानवधारणस्य विवक्षितत्वादस्याश्च फलं सर्वेषु कर्मसु तुल्यफलहेतुत्वप्रतिसन्धानेन प्रथमोपस्थित एव झटिति प्रवृत्तिर्न त्वधिकेच्छया कर्मान्तरसामग्रीविलम्बेन तद्विलम्ब इति ध्येयम् । आदेशान्तरमाह, अथवा डित्थादिकं यदृच्छामात्रमूलक, वचनं अनभिगृहीता। एतन्मते प्रागुक्तं वचनमाज्ञापनीविशेष एवेत्यवधेयम्।।७७||उक्ताऽनभिगृहीता,अथाभिगृहीतामाह । अभिगहिया पडिवक्खो९,संसयकरणी य सा मुणेयव्वा १० जत्थ अणेगत्थपयं, सोऊणं होइ संदेहो७८ त्थिपय, साणहाइसरहा ___अभिगृहीता प्रतिपक्षो विपरीता, प्रस्तावादनभिगृहीताया इति लभ्यते । तथा चानेकेषु कार्येषु पृष्टेषु | यदेकतरस्यावधारणम् , इदमिदानी कर्त्तव्यमिति साऽभिगृहीता, अथवा घट इत्यादिप्रसिद्धप्रवृत्तिनिमित्तकपदाभिधानं | सेति द्रष्टव्यम् । उक्ताभिगृहीता, ९|| अथ संशयकरणीमाह ।। संशयकरणी च सा मुणितव्या ज्ञातव्या, यत्र यस्याम् , अनेकार्थं बह्वाभिधायक, पदं, श्रुत्वा श्रोतुः सन्देहो भवति । तथा हि-सैन्धवमानयेत्युक्ते सैन्धवपदस्य लवणघोटकादिष्वनेकेष्वर्थेषु शक्तिबहादनेकार्थपदजन्यशाब्दबोधे प्रकरणादीनां विशिष्य हेतुत्वेन तद्विरहे शाब्दबोधविरहेऽपि भवति वक्त्रभिप्रायसन्देहाल्लवणानयनं घोटकानयनं वा मम कर्त्तव्यमिति मानसः असत्यामृपाभेदविचारे ८ अनभिगृहीता ९ अभिगृहिता १० संशयकरणी भाषाणां च | सनिदर्शनं लक्षणस्वरूपादिवर्णनम्॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126