Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra श्रीभाषारहस्यं स वृत्तिकम् ॥ ॥ २९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणम् । आज्ञापनीवारणाय भयाप्रयोज्येति । तादृशेच्छाप्रयोजकत्वं च विधेस्तज्ञ्जनकेष्टसाधनताज्ञानजनकतया वाक्यान्तरस्य च विघ्युन्नायकतयाऽहिंसापरा दीर्घायुषः स्युरित्याद्युपदेशेषु उद्देश्यविधेयभाव महिम्नैवा हिंसा दीर्घायुरादीनां हेतुहेतुमद्भावलाभस्तत एव चाहत्य विवेकिनां प्रवृत्तिरित्यपि वदन्ति ५ ।। उक्ता प्रज्ञापनी ५|| अथ प्रत्याख्यानीमाह । पत्थियणिसेहवयणं, पच्चक्खाणी जिणेहि पन्नत्ता ६। णियइच्छियत्तकहणं, णेया इच्छानुलोमा य ७ ॥७६ प्रार्थितस्य याचितवस्तुनो, यन्निषेधवचनं, सा जिनैः प्रत्याख्यानी प्रज्ञप्ता, यथा इदं न ददामीत्यादि । प्रार्थितस्येत्युपलक्षणं दुराचरितनिषेधवचनस्यापि पापं न करिष्यामीत्याद्याकारस्य तथात्वात् । तस्मान्निषेधविषये निषेप्रतिज्ञैव प्रत्याख्यानी ६ ॥ उक्ता प्रत्याख्यानी ६ ॥ अथेच्छानुलोमामाह । निजेप्सितत्वं स्वेच्छाविषयत्वं, तत्कथनं चेच्छानुलोमा ज्ञेया, यथा कश्चित् किश्चित्कार्यमारभमाणः कञ्चन पृच्छति 'करोम्येतदिति' । स प्राह, करोतु भवान् ममाप्येतदभिप्रेतमिति । अत्र चाप्तेच्छाविषयत्वेन स्वेष्टसाधनत्वशङ्काप्रतिरोधेन तन्निश्चयात्स्वेच्छाया अविलम्बेन प्रादुर्भावादिच्छानुलोमत्वम् । यत्रापि शोभनमेतदित्येवोच्यते तत्रापि वक्त्रिच्छाविषयत्वमर्थात् प्रतीयत एव, अथ यत्र जातदीक्षेच्छस्यापि पित्राद्यनुमत्यर्थं गुरुं प्रति प्रश्नस्तत्र च 'यथासुखं मा प्रतिबन्धं कुर्या' इत्युत्तरं तत्र कथमिच्छानुलोमत्वम्, इच्छाया उत्पन्नत्वेन पुनरनुत्पादनादिति १, मैवं तत्रोपेयेच्छाया उत्पन्नत्वेऽप्यनुमतिरूपोपाये कालविलम्बरूपाऽनिष्टसाधनत्वशङ्कानिरासेनोपायेच्छोत्पादनेनेच्छानुलोमत्व निर्वाहात् । ' विध्यादिभिन्नप्रवृत्यप्रतिबन्धकवचनत्वमेवेच्छानुलोमत्वम् ' इत्यपि कश्चित् ७ ॥ ७६ ॥ उक्ता इच्छानुलोमा ७ ॥ अथाऽनभिगृहीतामाह । For Private and Personal Use Only असत्यामृषाभेद विचारे ६ प्रत्याख्या नी ७ इच्छानुलामा भाषयोः सनिदर्शन लक्षण स्वरूपादिवर्णनम् ॥ ॥ २९ ॥

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126