Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
प्राप्तान्येतानि फलानि तथा पाकखाद्यानि बद्धास्थीनीति गर्ताप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानीति यावत् । तथा वेलोचितानि पाकातिशयतो वा ग्रहणकालोचितान्यतः परं कालं न विपहन्त इति यावत् । तथा टालानि अबद्धास्थीनि कोमलानीति यावत् । तथा द्वैधिकानि पेशीसम्पादनेन द्वैधीभावकरणयोग्यानीति । तथा पक्का एताः शाल्याद्या औषध्यस्तथा नीलाछविमत्यो वा लवनयोग्या वा भजनयोग्या वा पृथुकखाद्या वा इति । एतादृशाननुमतभाषाभाषणे फलादिनिश्रितदेवताकोप इत ऊर्द्ध मेतन्नाश एव प्रकारान्तरेणैतद्भोगो न शोभन इत्यवधार्य गृहिप्रवृत्तावधिकरणादिदोषोपपातश्चेति । प्रयोजने पुनर्मार्गदेशनादावसमर्थप्ररूढादिवचनं वदेत्, तथा हि-असमर्था एते आम्राः फलान्यतिभारेण न शक्नुवन्ति धारयितुमित्यर्थः । फलपक्कार्थप्रदर्शनमेतदप्राधान्येनेति द्रष्टव्यम् । तथा बहुनिवर्तितफला एते, अनेन पाकखाद्यत्वार्थ उक्तः। तथा बहुसम्भूतफला एतेऽनेन वेलोचितार्थः प्रदर्शितः। तथा भूतरूपा एतेऽनेन टालार्थ उक्तः । न चैवमितोपि प्रागुक्तार्थप्रतीतिपूर्वकप्रवृत्तावधिकरणादिदोषप्रसङ्ग इति वाच्यम् , साक्षादधिकरणत्वादिप्रवृत्तिजनकवचनस्यैव निषिद्धत्वात् । प्रकृते तु शुद्धाशयेन कारणतो भाषणे कथञ्चित्परकीयकुप्रवृत्या दोषाभावात् , अन्यथातिप्रसङ्गादिति दिक । औषधिनिर्देशेप्येवं वदेत, यथा प्ररूढा एते बहुसंभूतावा निष्पन्नप्राया इत्यर्थः। स्थिरावा निष्पन्ना इत्यर्थः। उत्सृता वा उपघातेभ्यो निर्गता इत्यर्थः। गार्भता वाऽनिर्गतशीर्षका इत्यर्थः। प्रसूता वा निर्गतशीर्षका इत्यर्थः । ससारा वा सञ्जाततन्दुलादिसारा इत्यर्थः। इत्येवमादिविधिः ॥ पक्काद्यर्थयोजनातदाक्षेपपरिहारास्तु प्राग्वत् ।। ९१ । किञ्च ।
दशवकालिकसममाध्ययनमद्वाक्यशुद्धिगदितभाषाभाषणविवेकः
सोपप
त्तिकः ॥
For Private and Personal Use Only

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126