Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषारहस्यं स-14 बृत्तिकम् ॥ ॥३३॥ दुरोऽयं वध्योऽयं पाक्योऽयमिति वदेत् । पाक्यः पाकप्रायोग्यः, कालप्राप्त इत्यन्ये । अप्रीतिव्यापत्त्यादिदोषप्रसङ्गालोकविरुद्धत्वाच । तथा दोह्यादिष्वप्यर्थेषु साध्यक्रियाभिधायीनि वचनानि न वदेव , यथा दोह्या गावः, दम्या गोरथका, बाह्या रथयोग्या वेति । आप्तवचनात्तदानीं गोदोहादिकर्तव्यत्वनिश्चये श्रोत्प्रवृत्त्यादिनाधिकरणलाघवादिदोषप्रसङ्गात् । दिगुपलक्षणादौ प्रयोजने पुनः, तदर्थकानि दोह्याद्यर्थकानि सिद्धानि, साध्यविलक्षणानि, विशेषणानि वदेत् यथा रसदा धेनुः, युवा गौः, इस्वो महल्लकः संवहनो वेति । नैवमुक्तदोष इति भावः ।।८९।। किञ्च । पासायखंभतोरण-गिहाइजोग्गा यणो वए रुक्खे। कारणजाए अथए, ते जाइप्पभिइगुणजुत्ते॥१०॥ प्रासाद एकस्तम्भः, स्तम्भस्तु स्तम्भ एव, तोरणानि नगरतोरणादीनि, गृहाणि कुटीरकादीनि, आदिपदात् परिघार्गलानावुदकद्रोणोपीठकचङ्गवेरालाङ्गलमयिकयन्त्रयष्टिनाभिगण्डिकासनशयनयानद्वारपात्रादिपरिग्रहस्तद्योग्यान् वृक्षान्न वदेत् । एतादृशं वदतो हि साधोस्तद्वनस्वामिव्यन्तरात् कोपादिः स्यात् । सलक्षणो वा वृक्ष इति कश्चिदभिगृह्णीयादनियमितभाषिणो लाघवं वा स्यादिति । विश्रमणतदासन्नमार्गकथनादौ कारणजाते च सति ताञ् जातिप्रभृतिगुणयुक्तान् वदेत् , तथा हि-उत्तमजातय एते वृक्षा अशोकादयः, दीर्घा वा नालिकेरीप्रभृतयो, वृत्ता नन्दिवृक्षादयो, महालया वटादयः, प्रजातशाखाः प्रशाखावन्तो दर्शनीया वेति ॥९०॥ किश्च । ण फलेसु ओसहीसु य, पक्काइवओवए वयणकुसलो। असमत्थप्परूढाइ, पओअणे पुण वए वयणं॥ फलेष्वौषधीषु वा, वचनकुशलो वाग्विधिनिपुणः, पक्कादिवचो न वदेत्, तथा हि- पक्कानि पाक दशवैकालिकसप्तमाध्ययनसद्वाक्यशुद्धिगदितभाषाभाषणविवेकः सोपपत्तिकः ॥ ॥३३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126