Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ASRA
राधनप्रसङ्गात् । तथाच सर्वे साधवो गता न गता वेत्यादिस्थले सर्वथानुविचिन्त्यैव वदेत यथाऽसम्भवाभिधानं न भवतीति । ननु सर्वो ग्रामो भोक्तुमागत इत्यादिवत् सर्वमेतदित्यादिकं नासम्भवग्रस्तमिति चेत् , न, समुच्चये तथाविधविवक्षाभावाचारित्रभावावस्थायामेतादृशाप्रयोगाच्च । तथाऽयतानामसंयतानां, आज्ञप्तिम् 'आस्व एहि कुरु वेदं कार्य शेष्व तिष्ठ ब्रज' इत्यादिरूपां न भाषेत न वदेत् अयतनाप्रवर्तनप्रयुक्तदोषप्रसङ्गात् । तथाऽसाधुलोकमाजीविकादिकं लोकैः साधुशब्देनाभिलप्यमानं साधुरयमिति न वदेत् मृपावादप्रसङ्गात् । नचैतद्वचनस्य रूपसत्याद्यन्तर्गततया न मृपात्वमिति शङ्कनीयम् , गुणोपबृंहणप्रवणानामीदृशानामन्वर्थशब्दानामविषये मोहादेव प्रयुज्यमानत्वेन दोषानुबन्धितया च मृषात्वोपपत्तेः । अत एव स्वविषये एतत्प्रयोगस्य गुणानुबन्धितया ज्ञानदर्शनचारित्रसम्पन्ने भावसाधौ साधुपदानभिलापेन उपबृंहणातिचारदोषप्रसङ्ग इति वदन्ति । ननु यद्येवं बोटिकनिह्मवादेरन्वर्थमाधुशब्दाभिधानं मृषा, कथं तर्हि पाषाणमय्यां प्रतिमायामन्वहंदादिपदगर्भस्तुतिकरणं सार्थकमिति चेत् , आः पाप? वृथा छिद्रान्वेषणमेतत् , उक्तस्थलेऽसंयतोपबृंहणदोषाभावतः स्थापनासत्यस्यानिरुद्धप्रसरतया दोषाभावात् । अन्यथा निक्षेपनैष्फल्यादिति दिग् । तथा सदोषाशंसनं न वदेत् । तथा हि । देवासुरनृतिरश्वां विग्रहे अमुकस्य जयो भवतु मा वाऽमुकस्य भवत्विति नालपेदधिकरणतत्स्वामिद्वेषादिदोषप्रसङ्गात् । तथा वातवृष्टिशीतोष्णक्षेमसुभिक्षादिकमपि भवतु मा वेति च न वदेत् विनातिशयप्राप्तं वचनमात्रात् फलाभावेन मृषावादप्रसङ्गात् । तथाभवनेऽप्यार्त्तध्यानभावात् , अधिकरणादिदोषप्रसङ्गात्, वातादिषु सत्सु सत्त्वपीडापत्तेश्च, कथं तर्हि " शिवमस्तु सर्वजगत" इति ?,
दशवैकालिकसप्तमाध्ययनसद्वाक्यशुद्धिगदिनभाषाभा|पण विवेक
मोपपनिकः॥
-945
For Private and Personal Use Only

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126