Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir S S********** वाहितापरसरित इत्यर्थः। तथा बहुविस्तीर्णोदकाः स्वतीरप्लावनप्रवृत्तजला इत्यर्थः । अत्र यदप्येतादृशशुद्धवचनाथै दम्पर्यपरिज्ञाने श्रोतृणां प्रवृत्तिनिवृत्त्यादिपूर्वोक्तदोषतादवस्थ्यं तदाऽऽगतप्रश्नापेक्षया तूष्णीम्भावे च प्रयोजनासिद्धेन वेड्यहमित्युत्तरप्रदाने च प्रत्यक्षमृषावादित्वेन प्रवचनोड्डाहतत्प्रद्वेषादिदोषोपनिपातस्तथाप्येतादृशस्थले संमुग्धमेवोत्तरं देयमित्यभिप्रायेणैतदभिधानं ।। तदिदमाह भगवान् दशवकालिकचूर्णिकारः॥"तम्हा बहुवाहडाई भणेजा तमवि तुरियमवक्कमंतो भणेजा जहा ण विभावेइ किमवि एस भणतित्ति ॥" ( तस्माद् बहुव्याहृ(भृ) तादीन्भणेत्तमपि त्वरितमपक्रामन्भणेद्यथा न विभावयति किमप्येष भणतीति ) तथाचैतादृशसंमुग्धवचनाद्वयुत्पन्नानां प्रश्नोद्यतमुनीनां प्रयोजनसिद्धिरितरेषां त्वनुषङ्गतोऽपि नाधिकरणप्रवृत्तिरपरिज्ञानादिति सर्वमवदातम् ॥ ९३ ॥ किश्च । सावजे सुकडाई,ण वए सुकए वए अतं वयणं । अणवजं चिय भासे, सम्मंणाऊण विहिभेयं ॥१४॥ सावये आरम्भमये कार्ये, सुकृतादिवचनं न वदेत् । तथा हि सुष्टु कृतमेतत्समादि, सुष्टु पक्कमेतत् सहस्रपाकादि, सुष्टुच्छिन्नमेतद्वनादि, सुष्टु हृतं क्षुद्रस्य वित्तं, सुष्टु मृतः प्रत्यनीकः, सुष्टु निष्ठितं वित्ताभिमानिनो वित्तं, सुष्टु सुन्दरा कन्या इत्यादि न भाषेत मुनिः, अनुमत्यादिदोषप्रसङ्गात् ।। सुकृते निरवद्ये तु तत्सुकृता| दिवचनं वदेत् । तथा हि-सुष्टु कृतं वैयावृत्त्यमनेन, सुष्टु पक्कं ब्रह्मचर्यमस्य साधोः, सुष्टु च्छिन्नं स्नेहबन्धनमनेन, सुष्टु हृतं शिक्षकोपकरणमुपसर्गे, सुष्टु मृतः पण्डितमरणेन साधुः, सुनिष्ठितं कर्माप्रमत्तसंयतस्य, ASRACTC ANSAR दशवैका|लिकसप्तमाध्ययनसद्वाक्यशुद्ध्यादिगदितभापाभाषणविवेकः सोपपचिकः॥ * ** **** For Private and Personal Use Only

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126