Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तेषां, चतसृणां चरमाऽसत्यामृषा भाषा भवति, तेषां सम्यक्परिज्ञानपरवश्चनाद्यभिप्रायाभावेन सत्यादिभाषाऽसम्भवात् । शिक्षा संस्कारविशेषजनकः पाठः, लब्धिश्च जातिस्मरणरूपा तथाविधव्यवहारकौशलजनकक्षयोपशम- रूपा वा, ताभ्यां ग्रहरहितानां पञ्चेन्द्रियतिरश्चामपि साऽसत्यामृषा भवति, तेऽपि हि न सम्यग्यथास्थितवस्तुप्रतिपादनाभिप्रायेण भाषन्ते नापि परविप्रतारणबुद्ध्या, किन्तु कुपिता अपि परं मारयितुकामा अप्येवमेव भाषन्त इति तेषामसत्यामृषैव भाषा, न च कुपितानां तेषां भाषा क्रोधनिःसृताऽसत्यैव स्यादिति वाच्यम् , अव्यक्तत्वेनानवधारणीयत्वाद्विलक्षणदलजन्यत्वाच्चेत्यवधेयम् । शिक्षालब्धिसहितास्तु शुकसारिकादयोऽन्ये च तिर्यञ्चो यथायोगं चतुर्विधामपि भाषां भाषन्ते शिक्षालब्धिभ्यां व्यक्तभाषोत्पत्तेरित्यवघेयम् ॥ ८१ ॥ (पञ्चदश्यां गाथायां भावभाषाया द्रव्य-श्रुत-चारित्रभेदात्रैविध्यमुक्तं तत्र ) उक्ता द्रव्यभावभाषा, अथ श्रुतभावभाषामाह । तिविहा सुअम्मि भासा,सच्चा मोसा असच्चमोसा य| सम्म उवउत्तस्स उ,सच्चा सम्मत्तजुत्तस्स||८२
भाषापदस्य प्रकरणमहिम्ना भावभाषापरत्वात् श्रुते श्रुतविषया भावभाषा, त्रिविधा त्रिप्रकारा भवति, तद्यथा, सत्या मृषाऽसत्यामृषा च । तत्र सम्यगुपयुक्तस्यागमानुसारेण यथावद्वदतः, तुर्विशेषणे, किं विशिनष्टि बहुश्रुतत्वादिगुणं, सत्या सत्यैव भवति विशुद्धाशयत्वादिति भावः ॥ ८२ ॥ ___अस्तु सम्यग्दृष्टरुपयुक्तस्य सत्या, असत्या तु कस्येत्याह।
_ [अस्स ॥ ८३ ॥ होइ असच्चा भासा, तस्सेव य अणुवउत्तभावेणं । मिच्छत्ताविट्ठस्स व, अवितहपरिणामरहि
RECOR
भावभापाया द्रव्य-श्रुतचारित्रभेदेषु द्रव्यभावभाषोपसंहारः श्रुतभावभाषोपक्रमस्तत्रैविध्ये | सत्याभापास्वामिप्ररूपणं च॥
CESSA
For Private and Personal Use Only

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126