SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तेषां, चतसृणां चरमाऽसत्यामृषा भाषा भवति, तेषां सम्यक्परिज्ञानपरवश्चनाद्यभिप्रायाभावेन सत्यादिभाषाऽसम्भवात् । शिक्षा संस्कारविशेषजनकः पाठः, लब्धिश्च जातिस्मरणरूपा तथाविधव्यवहारकौशलजनकक्षयोपशम- रूपा वा, ताभ्यां ग्रहरहितानां पञ्चेन्द्रियतिरश्चामपि साऽसत्यामृषा भवति, तेऽपि हि न सम्यग्यथास्थितवस्तुप्रतिपादनाभिप्रायेण भाषन्ते नापि परविप्रतारणबुद्ध्या, किन्तु कुपिता अपि परं मारयितुकामा अप्येवमेव भाषन्त इति तेषामसत्यामृषैव भाषा, न च कुपितानां तेषां भाषा क्रोधनिःसृताऽसत्यैव स्यादिति वाच्यम् , अव्यक्तत्वेनानवधारणीयत्वाद्विलक्षणदलजन्यत्वाच्चेत्यवधेयम् । शिक्षालब्धिसहितास्तु शुकसारिकादयोऽन्ये च तिर्यञ्चो यथायोगं चतुर्विधामपि भाषां भाषन्ते शिक्षालब्धिभ्यां व्यक्तभाषोत्पत्तेरित्यवघेयम् ॥ ८१ ॥ (पञ्चदश्यां गाथायां भावभाषाया द्रव्य-श्रुत-चारित्रभेदात्रैविध्यमुक्तं तत्र ) उक्ता द्रव्यभावभाषा, अथ श्रुतभावभाषामाह । तिविहा सुअम्मि भासा,सच्चा मोसा असच्चमोसा य| सम्म उवउत्तस्स उ,सच्चा सम्मत्तजुत्तस्स||८२ भाषापदस्य प्रकरणमहिम्ना भावभाषापरत्वात् श्रुते श्रुतविषया भावभाषा, त्रिविधा त्रिप्रकारा भवति, तद्यथा, सत्या मृषाऽसत्यामृषा च । तत्र सम्यगुपयुक्तस्यागमानुसारेण यथावद्वदतः, तुर्विशेषणे, किं विशिनष्टि बहुश्रुतत्वादिगुणं, सत्या सत्यैव भवति विशुद्धाशयत्वादिति भावः ॥ ८२ ॥ ___अस्तु सम्यग्दृष्टरुपयुक्तस्य सत्या, असत्या तु कस्येत्याह। _ [अस्स ॥ ८३ ॥ होइ असच्चा भासा, तस्सेव य अणुवउत्तभावेणं । मिच्छत्ताविट्ठस्स व, अवितहपरिणामरहि RECOR भावभापाया द्रव्य-श्रुतचारित्रभेदेषु द्रव्यभावभाषोपसंहारः श्रुतभावभाषोपक्रमस्तत्रैविध्ये | सत्याभापास्वामिप्ररूपणं च॥ CESSA For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy