________________
Shri Mahavir Jain Aradhana Kendra
श्रीभाषा
रहस्यं स वृत्तिकम् ।।
॥ ३१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्यैव च सम्यग्दृष्टेः, अनुपयुक्तभावेन वदतः श्रुतविषयिणी, असत्या भावभाषा भवति । अथोपयुक्तानां भाषा भावभाषेति पूर्व प्रतिज्ञानादनुपयुक्तानां तदभिधाने कथं न पूर्वापरविरोध इति चेत्, न, तत्राभिलापजनकविवक्षारूपोपयोगस्यैव ग्रहणादत्र च हेत्वाद्युपयोगाभावस्य ग्रहणेनाऽविरोधात् । सर्वथानुपयोगे तूष्णीम्भावप्रसङ्गात् । त्वाद्यनुपयोगे कथमहेतुकं वदेदिति चेत्, विपरीतव्युत्पत्तेरिति गृहाण । वाऽथवा, अवितथपरिणामरहितस्य सम्यक् श्रुतपरिणामविकलस्य, मिथ्यात्वाविष्टस्योपयुक्तस्यानुपयुक्तस्य वा सर्वापि श्रुतगोचरा भाषाsसत्या | उन्मत्तवचनवत्तद्वचनस्य घुणाक्षरन्यायेनापाततः संवादेपि प्रमाणत्वेनाव्यवहारात् । कथं तर्हि श्रुते अवतरत्येषा तज्ज्ञानस्य सदसदविशेषादिहेतुनाऽज्ञानत्वादिति ?, सत्यम् | अविशेषितश्रुतपदेनो भयोपग्रहात्, विशेषितस्यैव प्रातिस्विकरूपानुप्रवेशेनाभिलापादिति दिग्॥ तदिदमाह भगवान् भद्रबाहुः ||" सम्मद्दिट्ठी उ सुअं-मि अणुवउत्तो अहेउअं चैव । जं भासइ सा मोसा, मिच्छद्दिट्टीविय तहेव || २८०|| " त्ति (दश० अ० ७ निर्यु० ) (सम्यग्दृष्टिस्तु श्रुतेऽनुपयुक्तः अहेतुकमेव । यद् भापते सा मृषा मिथ्यादृष्टिरपि च तथैव इति ) अहेतुकं तन्तुभ्यः पट एव भवतीत्यादि ॥ ८३ ॥ अथाऽसत्यामृषा श्रुतभावभाषा कस्येत्याह ।
उवरिल्ले नाणतिगे, उवउत्तो जं च भासइ सुअंमि । सा खलु असचमोसा, जं बाहुल्लेण सा सुत्ते ॥८४॥ यत् श्रुते परावर्त्तनादि कुर्वन्, उपयुक्तो भाषते एषाऽसत्यामृषा यद् यस्मात्कारणात्, सूत्रे सिद्धान्ते, बाहुल्येन प्रायः, सा आमन्त्रण्यादिरूपा, असत्यामृषैवास्तीति, चः पुनः उपरितने ज्ञानत्रि
For Private and Personal Use Only
श्रुतभावभाषाभेदेषु-अस
त्या अस त्यामृषा
| भाषयोः स्वामिनि
रूपणं च ॥
॥ ३१ ॥