Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra श्रीभाषा रहस्यं स वृत्तिकम् । ॥ १६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जनस्तथोक्तचरितोपमानप्रयोगोपि मुख्यार्थबाधेप्याहार्यशाब्दबोध द्वाराऽनित्यताप्रतिपत्तिपर्यवसायितया नाऽनर्थ इति ॥ अत एवोक्तम् ।। " णवि अस्थि गवि अ होही, उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया, भवियजणविबोहडाए || ३०९ || इति " ( नाप्यस्ति नापि च भविष्यत्युल्लापः किशलयपाण्डुपत्राणाम् । उपमा खल्वेषा कृता, भव्यजनविबोधनार्थाय ।। ) एवं च कल्पितोपमानं स्वतो नादरणीयं किन्त्विष्टार्थसाधकतया । अत एवोक्तम् ॥ "अत्थस्स साहणड्डा, इंधणमित्र ओदणडाए । त्ति " ( अर्थस्य साधनार्थायेन्धनमिवोदनार्थाय इति ।) चरितोपमानं तु स्वतोऽप्यादरणीयमिति ध्येयम् ।। अनयैव दिशा प्रयोगेऽपि खरविषाणादिदृष्टान्तसप्रयोजनता यथाकथञ्चित्परिभावनीया बहुश्रुतैरिति दिग् || ३४ ।। तदप्येकैकं चतुर्विधमित्याह । आहरणे तसे, तद्दोसे तह पुणो उवन्नासे । एक्केकं तं चउहा, पेयं सुत्ता उ बहुभेयं ॥। ३५ ।। उक्तयोः चरितकल्पितयोरुपमानयोर्मध्ये एकैकं चतुर्विधं, क विषय इत्याह- उदाहरणे तदेशे तद्दोषे तथा पुनरुपन्यासे ज्ञेयं ज्ञातव्यं, सूत्रात्सिद्धान्तात् कीदृशं बहुभेदं बहवो भेदा अवान्तरप्रकारा यस्य तत्, तथा हि आहरणं सम्पूर्ण प्रकृतोपयोगी दृष्टान्तः, स च चतुर्द्धा अंपायोपायस्थापनाप्रत्युत्पन्नविन्यासभेदात् । तत्राऽपायोऽनिष्टप्राप्तिस्तद्विषयमुदाहरणमपायोदाहरणम् । स च चतुर्द्धा द्रव्यापायः क्षेत्रापायः कालापायो भावापायश्चेति । तत्र द्रव्यापाये धननिमित्तं परस्परवधपरिणतौ द्वौ भ्रातरावुदाहरणम् || क्षेत्रापाये दशारवर्ग: ॥ कालापाये द्वैपायनो || भावापाये च मण्डूकिकाक्षपकः कूरगडुकजीव इति ध्येयम् । For Private and Personal Use Only उपमान सत्यास्वरूपविचारे चरित कल्पितोप मानयोः प्रत्येकम पायादि चातुर्विध्यं प्रतिभेदादि समन्वितं च विस्तरतः ॥ ॥ १६ ॥

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126