________________
Shri Mahavir Jain Aradhana Kendra
श्रीभाषा
रहस्यं स वृत्तिकम् ।
॥ १६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जनस्तथोक्तचरितोपमानप्रयोगोपि मुख्यार्थबाधेप्याहार्यशाब्दबोध द्वाराऽनित्यताप्रतिपत्तिपर्यवसायितया नाऽनर्थ इति ॥ अत एवोक्तम् ।। " णवि अस्थि गवि अ होही, उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया, भवियजणविबोहडाए || ३०९ || इति " ( नाप्यस्ति नापि च भविष्यत्युल्लापः किशलयपाण्डुपत्राणाम् । उपमा खल्वेषा कृता, भव्यजनविबोधनार्थाय ।। ) एवं च कल्पितोपमानं स्वतो नादरणीयं किन्त्विष्टार्थसाधकतया । अत एवोक्तम् ॥ "अत्थस्स साहणड्डा, इंधणमित्र ओदणडाए । त्ति " ( अर्थस्य साधनार्थायेन्धनमिवोदनार्थाय इति ।) चरितोपमानं तु स्वतोऽप्यादरणीयमिति ध्येयम् ।। अनयैव दिशा प्रयोगेऽपि खरविषाणादिदृष्टान्तसप्रयोजनता यथाकथञ्चित्परिभावनीया बहुश्रुतैरिति दिग् || ३४ ।। तदप्येकैकं चतुर्विधमित्याह ।
आहरणे तसे, तद्दोसे तह पुणो उवन्नासे । एक्केकं तं चउहा, पेयं सुत्ता उ बहुभेयं ॥। ३५ ।। उक्तयोः चरितकल्पितयोरुपमानयोर्मध्ये एकैकं चतुर्विधं, क विषय इत्याह- उदाहरणे तदेशे तद्दोषे तथा पुनरुपन्यासे ज्ञेयं ज्ञातव्यं, सूत्रात्सिद्धान्तात् कीदृशं बहुभेदं बहवो भेदा अवान्तरप्रकारा यस्य तत्, तथा हि आहरणं सम्पूर्ण प्रकृतोपयोगी दृष्टान्तः, स च चतुर्द्धा अंपायोपायस्थापनाप्रत्युत्पन्नविन्यासभेदात् । तत्राऽपायोऽनिष्टप्राप्तिस्तद्विषयमुदाहरणमपायोदाहरणम् । स च चतुर्द्धा द्रव्यापायः क्षेत्रापायः कालापायो भावापायश्चेति । तत्र द्रव्यापाये धननिमित्तं परस्परवधपरिणतौ द्वौ भ्रातरावुदाहरणम् || क्षेत्रापाये दशारवर्ग: ॥ कालापाये द्वैपायनो || भावापाये च मण्डूकिकाक्षपकः कूरगडुकजीव इति ध्येयम् ।
For Private and Personal Use Only
उपमान
सत्यास्वरूपविचारे
चरित
कल्पितोप
मानयोः
प्रत्येकम
पायादि
चातुर्विध्यं
प्रतिभेदादि समन्वितं च विस्तरतः ॥
॥ १६ ॥