________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतत्कथानकोपदर्शनं च श्रोतृणां संवेगस्थैर्यार्थम् । इदं च चरणकरणानुयोगमधिकृत्योक्तम् ।। द्रव्यानुयोग- मधिकृत्य तु द्रव्याद्यपेक्षयात्मादेरेकान्तनित्यतादिवादिनां सुखदुःखाभावप्रसङ्गादिनिदर्शनं द्रष्टव्यम् १॥ उपायो अभिलषितवस्त्वबाप्त्यों व्यापारः' तद्विषयमुदाहरणमुपायोदाहरणं, सोपि च द्रव्यादिभेदादपायवच्चतुर्विधस्तत्र द्रव्योपायो लोके धातुर्वादादिः, लोकोत्तरे त्वध्वादौ पटलादिप्रयोगतः प्रासुकोदककरणादिः ॥ क्षेत्रोपायो लौकिको लाङ्गलकुलिकादिः, लोकोत्तरस्तु विधिना प्रातरशनाद्यर्थमटनादिना क्षेत्रसञ्चारः ॥ कालोपायो नाडिकादिलौकिकस्तस्य तज्ज्ञानोपायत्वेन तथाव्यपदेशात् , लोकोत्तरस्तु सूत्रपरावर्तनादिः ॥ भावोपायस्तु देवनिर्मितैकस्तम्भप्रासादोपशोभितसर्वतुकारामस्थरसालपादपस्य फलमवनामिन्या विद्यया गुर्विण्याः स्वगृहिण्या दोहदपूरणार्थ गृहीतवतश्चाण्डालचौरस्याभिप्रायपरिज्ञानार्थमभयस्येवाख्यायिकाप्रबन्धोपदर्शनादिक इति । इदं च लौकिकमाक्षिप्तं चरणकरणानुयोगमधिकृत्य चोक्तम् ॥ द्रव्यानुयोगमधिकृत्य पुनरादानाद्युपायेनात्मास्तित्वसाधननिदर्शनं द्रष्टव्यम् २॥ स्थापना च 'दोषाच्छादनेनाभीष्टार्थप्ररूपणा, तत्र लोके हिङ्गुशिवप्रवर्तकस्य निदर्शनम् , लोकोत्तरे च प्रमादवशाद्गच्छस्खलितस्य छादनेन कयाचित्कल्पनया प्रवचनं प्रभावयत इति चरणकरणानुयोगं लोकं चाधिकृत्य ॥ द्रव्यानुयोगमधिकृत्य तु नयभेदमतापेक्षया दुष्टहेत्वभिधानेपि तथाविधाभिप्रायेण तत्समर्थनं द्रष्टव्यम् ३ ॥ प्रत्युत्पन्नविन्यासश्च ' तदात्वोपस्थितानिष्टनिरासः,' तस्योदाहरणमेकस्य वणिजो गृहसमीपे बद्धगानतानानां गान्धर्विकाणां गीतश्रवणेनोत्पन्नकामोद्रेकनिजकामिनीपरिजनर
औपम्यसत्यास्वरूपविचारे प्रथमोदाहरणभेदप्रतिभेदविचार: सनिदर्शनः॥
ॐ
For Private and Personal Use Only