Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीभाषारहस्यं सवृत्तिकम् ॥ ॥१९॥
ARKAXXC
न्यासेनैव प्रज्ञापनीयः, यथा कश्चिदाह ॥ ' न मांसभक्षणे दोषो, न मद्ये न च मैथुने ॥ प्रवृत्तिरेषा भूतानां, निवृ- त्तिस्तु महाफला॥१॥" इदं च किलैवमेव युज्यते प्रवृत्तिमन्तरेण निवृत्तेः फलाभावानिर्विषयत्वेनासम्भवाच्च, तस्मात्फलनिवन्धननिवृत्तिनिमित्तत्वेन प्रवृत्तिरप्यदुष्टैवेति, अत्रोच्यते, इह निवृत्तेर्महाफलत्वं किं दुष्टप्रवृत्तिपरिहारात्मकत्वेन, आहोश्चिददुष्टप्रवृत्तिपरिहारात्मकत्वेन, आये कथं प्रवृत्तेरदुष्टत्वम् , अन्त्ये चादुष्टनिवृत्तिपरिहारात्मकप्रवृत्तेरपि महाफलत्वप्रसङ्गेन पूर्वापरविरोध इति । न मांसभक्षणेऽदोष इत्यत्र नम(अप)श्लेपः कर्त्तव्यः, यतः भूतानाम् जीवानाम् , एषा प्रवृत्तिरुत्पत्तिस्थानं, भूतानां पिशाचप्रायाणां वा, एषा प्रवृत्तिर्न तु विवेकिनामिति व्याख्येयम् ॥ द्रव्यानुयोगे त्वेकान्तनित्यो जीवः, अमूर्त्तत्वादाकाशवदिति प्रयोगे कर्मवदमूर्तत्वेऽनित्यं स्यादिति । एवं व्यभिचारोदाहरणात्तु कर्मामूर्तमनित्यं चेत्ययं वृद्धदर्शनेनोदाहरणदोष एव, यथाऽन्येषां साधर्म्यसमा जातिरिति ध्येयम् १॥ तदन्यवस्तूपन्यासस्तुल्यवस्त्वन्तराश्रयणेन, यथा पूर्वोदाहरण एव, यानि पुनः फलानि पातयित्वा कश्चिद्भक्षयति गृहे नयति वा तानि किं भवन्तीति लोके । चरणकरणानुयोगे तु न मांस इत्यादौ यथाश्रुत एव कुग्रहे "न हिंस्यात् सर्वाभूतानीति" वचनान्तरोपन्यासेन परिहारः।। द्रव्यानुयोगे तु कश्चिद्वदेत् यस्य वादिनोऽन्यो जीवोऽन्यच्च शरीरमिति तस्यान्यशब्दस्याविशिष्टत्वात्तयोरपि तद्वाच्यतयाऽविशेषादेकत्वप्रसङ्ग इति, तं प्रत्येवं तदन्यवस्तूपन्यासो विधेयः, हन्तैवं परमाणुव्यणुकघटपटादीनामेकत्वप्रसङ्गः, अन्यशब्दवाच्यत्वाविशेषात् , तस्माजीवशरीरयोरन्यत्वाभिधानं शोभनमेवेति २॥ प्रतिनिभस्तु छलनिपुणवादिनं प्रति प्रतिच्छले-
औपम्यसत्यास्वरूपविचारे चतुर्थोदाहरणभेदोपन्यासप्रति
भेदवि| चारः सनिदर्शनः॥
॥१९॥
For Private and Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126