SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीभाषारहस्यं सवृत्तिकम् ॥ ॥१९॥ ARKAXXC न्यासेनैव प्रज्ञापनीयः, यथा कश्चिदाह ॥ ' न मांसभक्षणे दोषो, न मद्ये न च मैथुने ॥ प्रवृत्तिरेषा भूतानां, निवृ- त्तिस्तु महाफला॥१॥" इदं च किलैवमेव युज्यते प्रवृत्तिमन्तरेण निवृत्तेः फलाभावानिर्विषयत्वेनासम्भवाच्च, तस्मात्फलनिवन्धननिवृत्तिनिमित्तत्वेन प्रवृत्तिरप्यदुष्टैवेति, अत्रोच्यते, इह निवृत्तेर्महाफलत्वं किं दुष्टप्रवृत्तिपरिहारात्मकत्वेन, आहोश्चिददुष्टप्रवृत्तिपरिहारात्मकत्वेन, आये कथं प्रवृत्तेरदुष्टत्वम् , अन्त्ये चादुष्टनिवृत्तिपरिहारात्मकप्रवृत्तेरपि महाफलत्वप्रसङ्गेन पूर्वापरविरोध इति । न मांसभक्षणेऽदोष इत्यत्र नम(अप)श्लेपः कर्त्तव्यः, यतः भूतानाम् जीवानाम् , एषा प्रवृत्तिरुत्पत्तिस्थानं, भूतानां पिशाचप्रायाणां वा, एषा प्रवृत्तिर्न तु विवेकिनामिति व्याख्येयम् ॥ द्रव्यानुयोगे त्वेकान्तनित्यो जीवः, अमूर्त्तत्वादाकाशवदिति प्रयोगे कर्मवदमूर्तत्वेऽनित्यं स्यादिति । एवं व्यभिचारोदाहरणात्तु कर्मामूर्तमनित्यं चेत्ययं वृद्धदर्शनेनोदाहरणदोष एव, यथाऽन्येषां साधर्म्यसमा जातिरिति ध्येयम् १॥ तदन्यवस्तूपन्यासस्तुल्यवस्त्वन्तराश्रयणेन, यथा पूर्वोदाहरण एव, यानि पुनः फलानि पातयित्वा कश्चिद्भक्षयति गृहे नयति वा तानि किं भवन्तीति लोके । चरणकरणानुयोगे तु न मांस इत्यादौ यथाश्रुत एव कुग्रहे "न हिंस्यात् सर्वाभूतानीति" वचनान्तरोपन्यासेन परिहारः।। द्रव्यानुयोगे तु कश्चिद्वदेत् यस्य वादिनोऽन्यो जीवोऽन्यच्च शरीरमिति तस्यान्यशब्दस्याविशिष्टत्वात्तयोरपि तद्वाच्यतयाऽविशेषादेकत्वप्रसङ्ग इति, तं प्रत्येवं तदन्यवस्तूपन्यासो विधेयः, हन्तैवं परमाणुव्यणुकघटपटादीनामेकत्वप्रसङ्गः, अन्यशब्दवाच्यत्वाविशेषात् , तस्माजीवशरीरयोरन्यत्वाभिधानं शोभनमेवेति २॥ प्रतिनिभस्तु छलनिपुणवादिनं प्रति प्रतिच्छले- औपम्यसत्यास्वरूपविचारे चतुर्थोदाहरणभेदोपन्यासप्रति भेदवि| चारः सनिदर्शनः॥ ॥१९॥ For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy