Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
तमीसिया जहा अभिनवउक्खयं मूलगं कोइ परिमिलाणं ति काऊणं भणेजा जहा सबो एस परित्तो, तत्थ अंता परित्तीभूआ, मज्झपएसा अणंता चेव, एसा परित्तमीसियत्ति" (अनन्तमिश्रिता यथा कश्चिन्मूलकस्थूडं दृष्ट्वा अन्य कश्चित्तादृशं भणेत् यथा सर्व एष अनन्तकाय इति तस्य मूलकपत्राणि जीर्णत्वेन परित्तीभूतानि केवलं तु जलसिंचनगुणेन केचित्तस्य किशलयाः प्रादुर्भूता अतो अनन्ताः परित्तत्वेन मिश्रिता भण्यन्ते ।। प्रत्येकमिश्रिता नाम यथा अभिनवोत्खातं मूलकं कश्चित्परिम्लानमिति कृत्वा भणेत् यथा सर्व एषः प्रत्येका, तत्राऽन्ताः प्रत्येकीभूताः मध्यप्रदेशा अनन्ता एव एषा प्रत्येकमिश्रितेति)॥ अत्र हि जीर्णपत्रत्वं म्लानकन्दत्वं च स्पष्टावेव विवक्षाहेतू उक्तौ । एवं च प्रायिकप्रयोगविवक्षाहेतुं विना यादृच्छिकदुष्टप्रयोगविवक्षाप्रसूतभाषाया मृषात्वमेवावसीयते । तत्वं तु बहुश्रुता विदन्ति ८ ॥६५॥ उक्ता परित्तमिश्रिता, अथाऽद्वामिश्रितामाहसच्चामोसा भासा,सा अद्धामीसिया भवे जत्थाभन्नइ पओअणवसा,दिवसनिसाणं विवज्जासो९॥६६॥
सा अद्धामिश्रिता सत्यामृषा भाषा भवेत् यत्र प्रयोजनादिवशादिवसनिशयोविपर्यासो भण्यते, यथाऽपरिणत एव दिवसे कश्चित् सहायं त्वरयन् वदति उत्तिष्ठोत्तिष्ठ रजनी वर्त्तते इति । रात्रौ वा वर्त्तमानायां वदति उत्तिष्ठोत्तिष्ठोद्गतः सूर्य इति । नन्वियं मृषैव दिवसे रजनीवर्तमानत्वस्य रजन्यां वा दिवससत्त्वस्य बाधात् , वर्तमानावदभिधायकवचनस्याव्यवहितोत्पत्तिकत्वे लक्षणायां च सत्यत्वमेवेति नातिरेक इति चेत्, न, लक्ष्यतावच्छेदकघटकव्यवधानाभावकूटेंऽशतो बाधाबाधाम्यामुभयरूपसमावेशादन्यथा प्रहरान्तरव्यवधानेपि तथा
अनन्ता एव एपा प्रत्येकामाहत विना यादृच्छिकष्टाऽद्वामिश्रितामाह-
सत्यामृषाभेदविचारे९ अद्धामिश्रितायाः सनिदर्शनं लक्षणस्वरूपादिप्र| रूपणम् ॥
*SHANASALARA
विवज्जासो९।।
For Private and Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126