Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषारहस्य सवृत्तिकम् ॥ ॥१८॥ दुष्टमुदाहरणम् । तच्चतुर्दा, अधर्मयुक्तप्रतिलोमात्मोपन्यास(रुपनीतमेदात् । तत्राधर्मयुक्त लोके नलदामकुविन्द उदाहरणं लोके, लोकोत्तरेपि चरणकरणानुयोगमधिकृत्य तथाविधं निदर्शनमवधार्य नाधर्मयुक्तं भणितव्यम् ।। द्रव्यानुयोगमधिकृत्य च वादे रूपविद्याबलेन प्रवचनार्थ सावद्यमपि कुर्यात् यथा मयुरीनकुलीप्रभृतिविद्याभिः स परिव्राजको विलक्षीकृत इति, दोषत्वं चात्र सर्वथा स्वरूपतो वाऽधर्मयुक्तत्वादिति ध्येयम् १॥ प्रतिलोमं प्रतिकूलं, तत्र कथानकं प्रद्योतेन हृतस्य पुनस्तमेव हृतवतोऽभयस्य द्रष्टव्यम् , इदं च लोके । लोकोत्तरे तु |चरणकरणानुयोगमधिकृत्य “णो किंचिवि पडिकूलं, कायवं भवभएणमण्णेसिं । अविणीतसिक्खगाण उ जय- णाइ जहोचितं कुजा ॥१॥" (नो किश्चिदपि प्रतिकूलं कर्तव्यं भवभयेनान्येषाम् ।। अविनीतशिक्षकाणां तु यतनया यथोचितं कुर्यात् ) ॥ द्रव्यानुयोगमधिकृत्य तु द्रव्यार्थिकपर्यायार्थिकयोरन्यतरेणान्यतरं चोदयेत् , दुर्वादिनां द्विराश्यादिप्रतिपादकानां निरासार्थ त्रिराश्यादिकं वा स्थापयेत् , अत्र चाद्ये पक्षे साध्यार्थासिद्धेः, द्वितीये तु विरुद्धभाषणादेव दुष्टत्वमित्यवसेयम् २॥ आत्मोपन्यासश्चायं यत्रानुपन्यसनीय आत्मैवोपन्यस्यते, तत्र च लोके तटाकभेदे पिङ्गलस्थपतिरुदाहरणम् , अन्यत्रापि चरणकरणानुयोगे नैवं ब्रूयात् , यदुत ॥ लोइयधम्मातो वि हु, जे पन्भट्ठा नराधमा ते उ॥ कह दवसोयरहिया, धम्मस्साराहगा होति ॥१॥ ति॥ (लौकिकधर्मादपि खलु ये प्रभ्रष्टा नराधमास्ते तु । कथं द्रव्यशौचरहिता धर्मस्याराधका भवन्ति ॥ इति) द्रव्यानुयोगेपि नैवं प्रयुजीत एकेन्द्रिया | जीवा व्यक्तोच्छ्वासादिलिङ्गत्वाद् , व्यतिरेके घटवदिति, अत्र च न च तथैतेष्वसद्भावस्तस्माजीवा एवैत इति, आत्म | औपम्यसत्यास्वरूपविचारे तृतीयोदाहरणदोषमेदप्रतिभेदविचारः सनिदर्शनः॥ 5ARAKC ॥१८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126