Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीभाषारहस्यं स
वृचिकम् ||
॥ १७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणार्थं पृष्टमित्र दत्तोपायस्य गृहसमीपे निर्मापितव्यन्तरभवनस्य गान्धर्विकाणां गानसमये व्यन्तरगृहे पटहादिध्वानेन तेषां क्षोभमुत्पादयतः ॥ लोकोत्तरे तु शिष्यस्यापि कदाचिदध्युपपन्नस्य सूत्रोकदिशा वारयतो धर्माचार्यस्य ॥ इदं च लोकं चरणकरणानुयोगं चाधिकृत्य || द्रव्यानुयोगमधिकृत्य तु यदि नास्तिको वदेद्भावा एव न सन्ति आत्मा तु सुतरां नास्तीति तदा तमेवं निवारयेत्, किमेतत्तव वचनमस्ति नास्ति वा, आद्ये प्रतिज्ञाहानिः, द्वितीये च निषेधकस्यैवासच्चे किं केन निषेधनीयं ? किं नास्त्यात्मेति । किञ्च नास्त्यात्मेतिप्रतिषेधको ध्वनिः शब्दः, शब्दच विवक्षापूर्वक इति नाजीवोद्भव इति प्रतिषेधध्वनेरेव सिद्ध आत्मेति ४ ॥ दर्शितं सभेदमुदाहरणम् १ ॥ तद्देशश्च 'निगमनोपयोगिदेशघटितो दृष्टान्तः । स चतुर्द्धा अनुशास्तिः १ उपालम्भः २ पृच्छा ३ निश्रावचनं ४ चेति । तत्र सद्गुणोत्कीर्तनेनो पबृंहणमनुशास्तिः । अत्र च सुभद्राकथानकं वक्तव्यम्, तत्रापि तस्याः शील गुणत्वपरीक्षेोत्तरं लोकप्रशंसा, एकदेशस्यैव प्रकृतोपसंहारोपयोगित्वादुदाहरणैकदेशता ।। एवं भरतकथानकेनापि एकदेशेन वैयावृत्यगुणोपसंहाराद् गुरोः शिष्याप्रमादोपबृंहणमुचितम् इदमपि लौकिकं चरणकरणानुयोगं चाधिकृत्योक्तम् || द्रव्यानुयोगमधिकृत्य पुनरात्मास्तित्ववादिनस्तन्त्रान्तरीयान् प्रति वक्तव्यम्, यदुत साध्वेतत् यदात्मास्तीत्यभ्युपगतं, किन्त्वकर्त्तायं न भवति ज्ञानादीनां कृतिसामानाधिकरण्यनियमादित्यादि । उदाहरणदेशता त्वस्यात्मनः कर्तृत्वदेशसाधन एवं निदर्शनाभिधानादित्यवधेयम् १ ॥ उपालम्भो 'दोषोपदर्शनम्' । तत्र मृगावतीदेव्युदाहरणम् एवं प्रमाद्यन् शिष्योप्युपालब्धव्य इति चरणकरणानुयोगमधिकृत्य ॥ द्रव्यानु
For Private and Personal Use Only
औपम्यस
त्यास्वरूप
विचारे द्वितीयोदा
हरण देश मेदप्रतिमेद
विचार: सनिदर्शनः ॥
॥ १७ ॥

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126