Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir + KARAN योगमधिकृत्य तु बहुधा नास्तिकवादप्रकटनलम्पटस्य चार्वाकस्यात्मनास्तित्वकथायामेवं वक्तव्यं, यदतात्मा- औपम्यसभावेऽस्त्यात्मेति वितर्को नास्त्यात्मेति कुविज्ञानं च नोपपद्येत धर्म्यभावे धर्मस्यैवासम्भवादित्यादि । उदाहरण- त्यास्वरूपदेशता चास्य परलोकादिप्रतिषेधवादिनो नास्तिकस्व जीवसद्भावसाधनाद्भावनीया २॥ पृच्छा 'प्रश्नः' । तत्र BI विचारे क्वाऽहमुत्पत्स्य इति भगवति पृष्टे षष्ठ्यां नरकपृथिव्यामिति भगवतोत्तरितः सप्तमनरकपृथिवीगमननिमित्तचक्रवर्ति- द्वितीयोदासाम्राज्यसम्पादनायाभ्युद्यतः कृतमालेन हतः कूणिक उदाहरणं लोके । लोकोत्तरेपि प्रष्टव्या आचार्या हरणदेशमेजिज्ञासितमर्थम् , पृष्ट्वा च समाचरणीयानि शक्यानि अशक्यानि वा परिहर्त्तव्यानि ।। उदाहरणदेशता चास्याभिहितैकदेश एवं प्रष्टुराग्रहात्तेनैव चोपसंहारादवसेया । इदमपि लोकं चरणकरणानुयोगं चाधिकृत्य ।। द्रव्या विचारः सनुयोगमधिकृत्य तु नास्त्यात्मेतिवादी नास्तिकः पृच्छयते, कुतो नास्त्यात्मेति, स चेद् ब्रूयात् सतोऽपरोक्ष इति, निदर्शनः॥ तदाभिधेयम् , भद्र ? कुविज्ञानमेतत्ते, विवक्षाभावे विशिष्टशब्दानुपपत्तेः, इत एवात्मसाधनादिति ३ ॥ निश्रावचनं च तत् ' यदेकं कश्चन निश्राभूतं कृत्वा विचित्रप्रतिपादनम् ' ! यथा द्रुमपत्रकाध्ययने भगवता गौतमनिश्रयाऽन्येप्यनुशासिताः, एवमसहना अपि शिष्या माईवसम्पन्नमेकं शिष्य निश्राभृतं कृत्वाऽनुशासनीयाः ।। उदाहरणदेशता चास्य लेशत एव तथानुशासनात् । एवं तावच्चरणकरणानुयोगमधिकृत्योक्तम् ।। द्रव्यानुयोगमधिकृत्य तु अन्यापदेशेन लोकायतो वक्तव्यः, अहो धिक्कष्टं नास्ति येषामात्मा, तदभावे दानादिक्रियावैफल्यात् , न च तद्वैफल्यम् , सच्चवैचित्र्यानुपपत्तेरित्यादि ४॥ उक्तः सभेद उदाहरणदेशः २॥ तद्दोषश्च 'बहुव्रीह्याश्रयणाद् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126