Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीभाषा-18 रहस्यं सवृचिकम् ॥ ॥९॥
जीव एकांतनित्य(त्योवा) इत्यादि तदसत्यं विराधकत्वात् , यच्च धवादिवृक्षसमूहेऽप्यशोकबाहुल्यादशोकवनमेवेदमित्युच्यते तन्मिश्रम् , यच्च वस्तुमात्रपर्यालोचनपरं हे देवदत्त घटमानयेत्यादि तदनुभयत्वस्वभावमिति। अत्र च परिभाषैव शरणं, परिभाषा च व्यवहार एवेति द्रष्टव्यम् । हन्दीत्युपदर्शने, निश्चयतो द्विविधैव भाषा सत्या, मृषेति, सत्यामृषाभाषायास्तात्पर्यबाधेनासत्यायामेवान्तर्भावात् , अबाधिततात्पर्यस्यैव शब्दस्य सत्यत्वादन्यथा द्रव्यं रूपवदित्यस्य देशकात्य॑तात्पर्यभेदेन प्रामाण्याप्रामाण्यद्वैविध्यानुपपत्तेरित्यन्यत्र विस्तरः । अत्र च वने वृक्षसमूहरूपेऽशोकाभेदतात्पर्यबाधेन मृषात्वस्य स्पष्टत्वात् ।। उकं च पश्चसङ्घहटीकायां।“व्यवहारनयमतापेक्षया चैवमुच्यते परमार्थतः पुनरिदमसत्यमेव यथाविकल्पितार्थायोगादिति" । न च समूहदेश एवाशोकाभेदान्वयान बाधः, तथा समभिव्याहारे देशान्वयस्याव्युत्पन्नत्वात् । यदा त्वशोकप्रधानं वनमिति विपक्षया प्रयोगस्तदा श्रमणसङ्घ इत्यादिवद् व्यवहारसत्यतापि न विरुद्ध्यत इत्याभाति ॥ असत्यामृषापि विप्रलिप्सादिपूर्विकाऽसत्य एव, अन्या च सत्य एवान्तभवति ॥ तदुक्तं पश्चसङ्ग्रहटीकायामेव । इदमपि व्यवहारनयमतापेक्षया द्रष्टव्यमन्यथा विप्रतारणादिबुद्धिपूर्वकमसत्येऽन्तर्भवति, अन्यस्तु सत्य इति ॥ १७ ॥ उक्तार्थे सूत्रोपष्टम्भमाहएत्तोच्चिय आणमणी, जाईए केवलाय णिहिट्ठा। पण्णवणी पण्णवणा-सुत्ते तत्तत्थदंसीहिं ॥१८॥
यतो निश्चयनयेन चरमभाषाद्वयं पूर्वभाषाद्वयेऽन्तर्भावितम् । इत एवाज्ञापनी असत्यामृषाभेदान्तःपरिगणितापि, जात्या सामान्यपुरस्कारेण, केवला तद्विनिर्मुक्ता च, प्रज्ञापनासूत्रे तत्त्वार्थदर्शिभिः श्यामाचार्यैः,
आज्ञापन्याद्याला
पकेन व्यवलाहारनय
सम्मतभेद
स्थापि प्राM]माणिकत्व
प्ररूपणम् ॥
॥९॥
For Private and Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126