Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
१ जनपदसत्याभाषायाः स्वरूप निरूपणम्।।
ROCESCARRORRON
| धर्माभिधानं च न सत्यम् , अवधारणबाधादित्यायूह्यम् । एषा च श्रुते आराधनी परिभाषिता, परिभाषितत्वानुधावनं च पारिभाषिकाराधकत्वेन लक्षणत्वोपदर्शनार्थम् , अन्यथा विहितत्वेनाराधकत्वस्यासम्भवात् , विहितत्वं हि "विधिबोधितकर्त्तव्यताकत्वं" तच्च सत्यभाषाघटितमित्यन्योन्याश्रयात् सम्यगुपयोगपूर्वकत्वेन प्रातिस्विकरूपेण वाऽऽराधकशब्दत्वस्य वा सत्याद्यतिव्याप्तेरिति दिग।सा च दशधा जनपदसत्या, सम्मतसत्या, स्थापना सत्या, नामसया, रूपसत्या, प्रतीत्यसत्या, व्यवहारसत्याँ, भावसा, योगसत्या, औपभ्यसत्या चेति ।। २२ ।। तत्र पूर्व जनपदसत्याया एव लक्षणमाहजा जणवयसंकेया, अत्थं लोगस्स पत्तियावई ।। एसा जणवयसच्चा, पपणत्ता धीरपुरिसेहिं १ ॥२३॥
या जनपदसङ्केताल्लोकस्यार्थं प्रत्याययति, सैषा भाषा धीरपुरुषैस्तीर्थकरगणधरैः, जनपदसत्या प्रज्ञप्ता। तथा च "जनपदसङ्केतमात्रप्रयुक्तार्थप्रत्यायकत्वम्” एतल्लक्षणम् । मात्रपदमनादिसिद्धसङ्केतव्यवच्छेदार्थम् , अस्ति चात्रेदं लक्षणं कोणादिसङ्केतज्ञानादेव पिच्चादिपदात्पयःप्रभृतिप्रतीतेः । स्यान्मतम् , अपभ्रंशे शक्त्यभावादबोधकत्वं, यदि च ततोपि बोधस्तदा शक्तिभ्रमादेवेति, मैवम् , ईश्वरासिद्धौ तत्तत्पदवोद्धव्यत्वप्रकारित्वावच्छिन्नेश्वरेच्छारूपशक्तरप्यसिद्धेः, सङ्केतज्ञानत्वेनैव शाब्दबोधहेतुत्वात् । संस्कृतसङ्केतस्यैव सत्यत्वं नापभ्रंशसङ्केतस्येत्यर्थस्य विनिगन्तुमशक्यत्वाचेत्यन्यत्र विस्तरः ॥ न चेयं तत्तद्देश एव सत्या न तु शास्त्रेपि शक्तशब्दान्तरमध्यपतितापीति वाच्यम् , अविप्रतिपत्त्याऽदुष्टविवक्षाहेतुत्वेनान्यत्रापि तस्याः सत्यत्वात् , अन्यथा देशीयशब्देन
For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126