SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir १ जनपदसत्याभाषायाः स्वरूप निरूपणम्।। ROCESCARRORRON | धर्माभिधानं च न सत्यम् , अवधारणबाधादित्यायूह्यम् । एषा च श्रुते आराधनी परिभाषिता, परिभाषितत्वानुधावनं च पारिभाषिकाराधकत्वेन लक्षणत्वोपदर्शनार्थम् , अन्यथा विहितत्वेनाराधकत्वस्यासम्भवात् , विहितत्वं हि "विधिबोधितकर्त्तव्यताकत्वं" तच्च सत्यभाषाघटितमित्यन्योन्याश्रयात् सम्यगुपयोगपूर्वकत्वेन प्रातिस्विकरूपेण वाऽऽराधकशब्दत्वस्य वा सत्याद्यतिव्याप्तेरिति दिग।सा च दशधा जनपदसत्या, सम्मतसत्या, स्थापना सत्या, नामसया, रूपसत्या, प्रतीत्यसत्या, व्यवहारसत्याँ, भावसा, योगसत्या, औपभ्यसत्या चेति ।। २२ ।। तत्र पूर्व जनपदसत्याया एव लक्षणमाहजा जणवयसंकेया, अत्थं लोगस्स पत्तियावई ।। एसा जणवयसच्चा, पपणत्ता धीरपुरिसेहिं १ ॥२३॥ या जनपदसङ्केताल्लोकस्यार्थं प्रत्याययति, सैषा भाषा धीरपुरुषैस्तीर्थकरगणधरैः, जनपदसत्या प्रज्ञप्ता। तथा च "जनपदसङ्केतमात्रप्रयुक्तार्थप्रत्यायकत्वम्” एतल्लक्षणम् । मात्रपदमनादिसिद्धसङ्केतव्यवच्छेदार्थम् , अस्ति चात्रेदं लक्षणं कोणादिसङ्केतज्ञानादेव पिच्चादिपदात्पयःप्रभृतिप्रतीतेः । स्यान्मतम् , अपभ्रंशे शक्त्यभावादबोधकत्वं, यदि च ततोपि बोधस्तदा शक्तिभ्रमादेवेति, मैवम् , ईश्वरासिद्धौ तत्तत्पदवोद्धव्यत्वप्रकारित्वावच्छिन्नेश्वरेच्छारूपशक्तरप्यसिद्धेः, सङ्केतज्ञानत्वेनैव शाब्दबोधहेतुत्वात् । संस्कृतसङ्केतस्यैव सत्यत्वं नापभ्रंशसङ्केतस्येत्यर्थस्य विनिगन्तुमशक्यत्वाचेत्यन्यत्र विस्तरः ॥ न चेयं तत्तद्देश एव सत्या न तु शास्त्रेपि शक्तशब्दान्तरमध्यपतितापीति वाच्यम् , अविप्रतिपत्त्याऽदुष्टविवक्षाहेतुत्वेनान्यत्रापि तस्याः सत्यत्वात् , अन्यथा देशीयशब्देन For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy