________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
www.kobatirth.org
भीभाषा-|| शब्दव्यवस्थाहेतुरभिधेयधर्म उपदेशगम्यः स्त्रीपुंनपुंसकत्वानीति" || एतदभिप्रायेण सूत्रमप्येवं व्यवस्थितम् ॥ रहस्यं स- " अह भंते जा य इस्थिवऊ जा य पुमवऊ जा य णपुंसगवऊ पण्णवणी णं एसा भासा, ण एसा भासा मोसा ? वृत्तिकम् ॥ गोयमा ! जा य इत्थिवऊ जा य पुमवऊ जा य णपुंसगवऊ पण्णवणी णं एसा भासा ण एसा भासा मोसत्ति"
(अथ भदन्त या च स्त्रीवाक् या च पुंवाक या च नपुंसकवाक् प्रज्ञापनी एषा भाषा नैषा भाषा मृषा ? गौतम ! या च स्त्रीवाक्० ) एवं भाषाचातुर्विध्यमपि व्यवहारानुगतं श्रुतमूलकतया नावास्तवमिति भावः । अथ निश्चयव्यवहारयोरेकमवश्यमप्रमाणमेवान्यथा वस्तुनस्तदभिमतद्वैरूप्यानुपपत्तेरिति चेत्, न, वस्तुनोऽनन्तधर्मात्मकत्वस्य प्रामाणिकत्वात् , अन्यथैकस्यैव पितृपुत्रादिव्यवस्थानुपपत्तेस्तत्तद्धर्मगौणमुख्यत्वोपपत्यर्थमेव नयभेदानुसरणादित्यन्यत्र विस्तरः ॥२०॥ तदेवं समर्थितं नयभेदेन भाषाया द्वैविध्यं चातुर्विध्यं च । अथ सौत्रविभागमनुमृत्योद्देशक्रमप्रामाण्यात् , सत्याया एव लक्षणाभिधानपूर्वकं विभागमाहतम्मीतव्वयणं खलु, सच्चा अवहारणिकभावेणं॥आराहणी य एसा, सुअंमि परिभासिया दसहा॥ जणवयसंमयठवणा-णामे रुवे पंडुच्चसच्चे य ॥ ववहारभावजोए, दसमे ओवंम्मसच्चे य ।। २२॥
खल्विति निश्चये, अवधारणैकभावेन तस्मिस्तद्वचनं सत्या, अवधारणकभावेनेत्यसत्यामृषाव्यवच्छेदार्थ, तस्या आमन्त्रणाद्यभिप्रायेणैव प्रयोगात्, अवधारणस्य च वस्तुप्रतितिष्ठासायामेवैवकाराद्यध्याहारात्संसर्गमहिम्ना वा लाभात्तस्मिंस्तद्वचनं च 'तद्धर्मवति तद्धर्मप्रकारकशाब्दबोधजनकः शब्दः, अनन्तधर्मात्मके वस्तुन्येक-
सत्यभाषाया लक्षणप्ररूपणपूर्वकं आराधनीत्वं दशभेदोद्देशश्च ॥
KAHAKAA%
॥११॥
For Private and Personal Use Only