SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीभाषारहस्यं स वृत्तिकम् ॥ ४ ॥ १२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुत्राप्यन्वयानुपपत्तिप्रसङ्गात् ॥ २३ ॥ उक्ता जनपदसत्या १ ॥ अथ सम्मतसत्यां निरूपयतिणाइक्कमित्तु रूढिं, जा जोगत्थेण णिच्छयं कुणइ ॥ सम्मय सच्चा एसा, पंकय भासा जहा पउमे २ ||२४|| या रूढिमतिक्रम्य योगार्थेन व्युत्पत्त्यर्थसम्भवमात्रेण, न निश्चयं करोति एषा सम्मतसत्या यथा पद्म पङ्कजभाषा, इयं हि शैवालादीनामपि समाने पङ्कसम्भवत्वेऽरविन्द एव प्रवर्त्तते, न तु शैवालादाविति सम्मतसत्या । एवं च “समुदायशक्तिप्रतिसन्धानवैकल्यप्रयुक्तावोधकत्ववत्पदघटिता भाषा" सम्मतसत्येति फलितम् ।। अथैवं जनपदसत्यातिव्याप्तिः, न चावयवशक्त्यतिप्रसङ्गभञ्जकत्वेन समुदायशक्तेरुपादानान्न दोषः, व्युत्पत्तिविरहितरूढशब्दाव्याप्तेरिति चेत्, न, शक्तिर्हि न सङ्केतमात्रं किन्त्वनादिः शास्त्रीयोऽयाधितः सङ्केतोऽन्यथा लक्षणाद्युच्छेदादित्यनतिप्रसङ्गादिति दिग् ॥ २४ ॥ उक्ता सम्मतसत्या २ ।। अथ स्थापनासत्यामाह - ठवणाए वहंती, अवगयभावत्थर हिय संकेया ॥ ठवणासच्चा भन्नइ, जह जिणपडिमाइ जिणसद्दो ३ || २५ || स्थापनायां वर्त्तमाना स्थापनासत्या भण्यते कीदृशी, अवगतः प्रमितो भावार्थरहितो योगार्थवि - निर्मुक्तः सङ्केतो यस्याः सा, उदाहरणमाह यथा जिनप्रतिमायां जिनशब्द इति । अयम्भावः जिनशब्दो यथा भावजिने प्रवर्त्तते तथा स्थापनाजिनेऽपि निक्षेपप्रामाण्यात्, नानार्थानां च शब्दानां प्रकरणादिमहिम्नैव विशेनियमनमिति, " यत्र प्रकरणादिवलाद्बहुशो भावे प्रवर्त्तमानानामपि शब्दानां नियन्त्रितशक्तितया स्थापनाप्रतिपादकत्वप्रतिपत्तिस्तत्र स्थापनासत्यत्वमिति,” एतेनाचेतनायां प्रतिमायामर्हदादिपदं प्रतिपादयतामजीवे जीवसंज्ञेति For Private and Personal Use Only २ सम्मत सत्याभाषा याः जिनप्रतिमा दृष्टान्तेन ३ स्थापना सत्याभाषा ★याश्च स्वरूपनि रूपणम् ॥ ॥ १२ ॥
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy