Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीभाषारहस्यं स वृत्तिकम् ||
॥ १४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
४
ते होंति परावेक्खा, वंजयमुहदंसिणो त्ति ण य तुच्छा । दिट्ठमिणं वेचित्तं, सराव कप्पूरगंधाणं ॥ ३० ॥ ते प्रतीत्यभावाः, व्यञ्जकमुखदर्शिनः प्रतिनियतव्यञ्जकव्यङ्गयाः सन्तः, परापेक्षा इति, न च नैव, तुच्छाः, प्रतियोग्यनुस्मरणमत्र सप्रतियोगिकज्ञानसामग्रीसम्पादनार्थं न तु विकल्पशिल्पकल्पनार्थमिति भावः । अथ धर्मिज्ञानसामग्र्या एव धर्मज्ञानसामग्रीत्वात्कथमणुत्व महत्त्वादिधर्मिज्ञाने तज्ज्ञानहेतुविलम्ब इत्यत आह-दृष्टं साक्षात्कृतम्, इदं वैचित्र्यं केचिद्भावाः सहकारिव्यङ्ग्यरूपाः केचिच्च न तथेति वैलक्षण्यं, शरावकर्पूरगन्धयोः कर्पूरगन्धो हि स्वरसत एव भासते, शरावगन्धस्तु जलसम्पर्कादिति, न च जलसम्पर्काच्छरावेऽभिनवगन्ध एवोस्पद्यते न तु प्रागुत्पन्न एव गन्धोऽभिव्यज्यत इति, पृथ्वीत्वेन पूर्वमपि तत्र गन्धावश्यकत्वात्, तन्नाशादिकल्पनायां मानाभावाद्, विलक्षणाग्निसंयोगादीनामेव पृथिवीगन्धनाशकत्वाच्चेतिदिग् । एवं द्वित्वादिकमप्यपेक्षाबुद्धिव्यङ्ग्यमेव न तु तञ्जन्यं चैत्रीयापेक्षा बुद्धिजनितद्वित्वस्य मैत्रस्यापि प्रत्यक्षत्वप्रसङ्गात् । द्वित्वे च न चैत्रीयत्वमस्ति येन चैत्रीयद्वित्वे चैत्रीयापेक्षाबुद्धेश्चैत्रीयद्वित्वप्रत्यक्षे चैत्रीयद्वित्वस्य च हेतुत्वं स्यादित्यन्यत्र विस्तर इति किमतिप्रसङ्गेन ६ ॥ ३० ॥ उक्ता प्रतीत्यसत्या ६ ।। अथ व्यवहारसत्यामाह ।
हारो हु विवक्खा, लोगाणं जा पउज्जए तीए ॥ पिज्जइ गई य डज्झइ, गिरित्ति ववहारसच्चा सा ७ ॥ ३१ व्यवहारो हि लोकानां विवक्षा 'वक्तुमिच्छा विवक्षा सा चाऽत्र नद्यादिपदं नदीगतनीरादिकं बोधयत्विति प्रयोत्रिच्छा' ततो नद्यादिपदान्नदीगतनीरादिप्रतिपत्तेः, नदीतन्नीरादीनामभेदप्रतिपत्तिरित्येके, 'नद्यादिपदं नद्यभिन्न
For Private and Personal Use Only
प्रतीत्यसत्यायां वि
रोधाशङ्का
परिहारा -
वान्तरारे
कानिवारणं
सदृष्टान्तं । ७
व्यवहारस
त्याभाषा
याः सनिदर्शनं लक्षणादिप्र
रूपणं च ॥
॥ १४ ॥

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126