Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषा रहस्यं सवृत्तिकम् । आराधकत्वविराधकत्वविषये संवादपाठः॥ ॥१०॥ स्त्रीप्रज्ञापनी) इत्यादिप्रबन्धेन सत्यत्वाभिधानाच्छाब्दव्यवहारानुगत रुयादिलक्षणमादाय तस्या असत्यत्वेऽपि वेदानुगतं तदादाय सत्यत्वस्य युक्तत्वाच्च प्रागुक्तमेव युक्तमित्यपि द्रष्टव्यम् ॥ १८ ॥ अथाराधकत्वविराधकत्वदेशाराधकविराधकत्वानाराधकविराधकत्वोपाधिभिश्चतुर्दैव विभागो युक्तो ? न तु द्विधेत्यत आह आराहणं पडुच्च वि, परिभासा चेव चउविहविभागे॥ सच्चंत भावे च्चिय,चउण्ह आराहगत्तं जं ॥१९॥ ___ आराधनां प्रतीत्यापि चतुर्विधविभागे परिभाषैव ॥ निश्चयतस्त्वाराधकत्वानाराधकत्वाभ्यां च द्विविधैव भाषा, वस्तुतो भाषानिमित्तयोः शुभाशुभसङ्कल्पयोरेवाराधकत्वं विराधकत्वं या न तु भाषायाः। अथ मन्दकुमारादीनां करणाऽपटिष्ठतादिनाऽहमेतद्भाषे इत्यादिज्ञानशून्यानां या भाषा तन्निबन्धनाशुभसङ्कल्पाभावाकथं तत्र विकल्पेन भापोपक्षय इति चेत् , न, अनायुक्तपरिणामस्यैव कर्मवन्धनहेतुत्वेन विराधकत्वात्तेन तदुपक्षयात् । समर्थितं चेदं “निच्छयओ सकयं चिय ॥ ४८ ॥" (निश्चयतः स्वकृतमेव ) इत्यादिना महता प्रवन्धेन स्वोपज्ञाध्यात्ममतपरीक्षायामिति नेह प्रतन्यते । अत्रैव हेतुमाह सत्यान्तर्भाव एवं यद् यस्मात्कारणात् , चतसृणां भाषाणामाराधकत्वम् । अयं भावः " इच्चेयाई भंते चत्तारि भासजायाई भासमाणे किं आराहए, विराहए ? गोयमा ! इच्चेयाई चचारि भासजाताई आउत्तं भासमाणे आराहए णो विराहएत्ति" (इत्येतानि चत्वारि है| भाषाजातानि भाषमाणः किमाराधकः विराधकः ? गौतम ! इत्येतानि चत्वारि भाषाजातानि आयुक्तं भाषमाणः आराधकः नो विराधकः ) प्रज्ञापनासूत्रे सर्वा अपि भाषा आयुक्तं भाषमाणस्याराधकत्वोपदेशाक्रियादयस्य For Private and Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126