SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषा-18 रहस्यं सवृचिकम् ॥ ॥९॥ जीव एकांतनित्य(त्योवा) इत्यादि तदसत्यं विराधकत्वात् , यच्च धवादिवृक्षसमूहेऽप्यशोकबाहुल्यादशोकवनमेवेदमित्युच्यते तन्मिश्रम् , यच्च वस्तुमात्रपर्यालोचनपरं हे देवदत्त घटमानयेत्यादि तदनुभयत्वस्वभावमिति। अत्र च परिभाषैव शरणं, परिभाषा च व्यवहार एवेति द्रष्टव्यम् । हन्दीत्युपदर्शने, निश्चयतो द्विविधैव भाषा सत्या, मृषेति, सत्यामृषाभाषायास्तात्पर्यबाधेनासत्यायामेवान्तर्भावात् , अबाधिततात्पर्यस्यैव शब्दस्य सत्यत्वादन्यथा द्रव्यं रूपवदित्यस्य देशकात्य॑तात्पर्यभेदेन प्रामाण्याप्रामाण्यद्वैविध्यानुपपत्तेरित्यन्यत्र विस्तरः । अत्र च वने वृक्षसमूहरूपेऽशोकाभेदतात्पर्यबाधेन मृषात्वस्य स्पष्टत्वात् ।। उकं च पश्चसङ्घहटीकायां।“व्यवहारनयमतापेक्षया चैवमुच्यते परमार्थतः पुनरिदमसत्यमेव यथाविकल्पितार्थायोगादिति" । न च समूहदेश एवाशोकाभेदान्वयान बाधः, तथा समभिव्याहारे देशान्वयस्याव्युत्पन्नत्वात् । यदा त्वशोकप्रधानं वनमिति विपक्षया प्रयोगस्तदा श्रमणसङ्घ इत्यादिवद् व्यवहारसत्यतापि न विरुद्ध्यत इत्याभाति ॥ असत्यामृषापि विप्रलिप्सादिपूर्विकाऽसत्य एव, अन्या च सत्य एवान्तभवति ॥ तदुक्तं पश्चसङ्ग्रहटीकायामेव । इदमपि व्यवहारनयमतापेक्षया द्रष्टव्यमन्यथा विप्रतारणादिबुद्धिपूर्वकमसत्येऽन्तर्भवति, अन्यस्तु सत्य इति ॥ १७ ॥ उक्तार्थे सूत्रोपष्टम्भमाहएत्तोच्चिय आणमणी, जाईए केवलाय णिहिट्ठा। पण्णवणी पण्णवणा-सुत्ते तत्तत्थदंसीहिं ॥१८॥ यतो निश्चयनयेन चरमभाषाद्वयं पूर्वभाषाद्वयेऽन्तर्भावितम् । इत एवाज्ञापनी असत्यामृषाभेदान्तःपरिगणितापि, जात्या सामान्यपुरस्कारेण, केवला तद्विनिर्मुक्ता च, प्रज्ञापनासूत्रे तत्त्वार्थदर्शिभिः श्यामाचार्यैः, आज्ञापन्याद्याला पकेन व्यवलाहारनय सम्मतभेद स्थापि प्राM]माणिकत्व प्ररूपणम् ॥ ॥९॥ For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy